________________
फेब्रुआरी २०१२
स्थिरसुरभितया ग्रीष्मे ये रागीष्टा विचिन्त्य तान् प्रश्नम् । यच्चक्रे करिपुरुषस्तदुत्तरं प्राप तत्रैव ॥ १२८॥
केसरागजनरुचिताः ।
सह रागेण वर्त्तन्ते इति सरागास्ते च ते जनाश्च तेषां रुचिताः के इति
प्रश्नार्थः । उत्तरम् केसरा- बकुला, गजस्य ना - पुरुषो गजना, तस्य
सम्बोधनम् हे गजन: !- हस्तिपक!, उचिता:- प्रशस्ताः ॥१२८॥
'प्रणतजनितरक्षं कीदृगर्हत्पदाब्जं ?,
श्वदति विगलितश्रीः कीदृशं कामिवृन्दम्? । प्रणिगदति निषेधार्थं पदं तन्त्रयुक्त्या, कृतिभिरभिनियुक्तं किं किलाऽहं करोमि? ॥१२९॥
६९
नत्वमसि ।
१. नमतीति नत्, क्विप्, तोऽन्तागमः पञ्चमलोपश्च । नतमवति - रक्षति नतु । २. न विद्यते मा - लक्ष्मीर्यस्याऽसौ अमस्तस्य सम्बोधनम् - हे अम!गतलक्ष्मीक!, सि सह इना- कामेन वर्त्तते इति से, सहस्य सभावे, ततः ‘स्वरो ह्रस्वः' इति ह्रस्वः । कोऽर्थः ? कामेन सह वर्त्तत इत्यर्थ: । ३. हे नकार! त्वमसि भवसि ॥१२९॥
-
'दम्पत्योः का कीदृग्? के कं भेजुरिति सुनृपते ! ब्रूहि ? ।
श्मुक्ताः कयाऽऽह्रियन्ते? 'वदत्यपाच्यश्च मदनध्रुक् कीदृक्? ॥१३०॥ मायानमदनदादानदमनयामा हारदामकाम्ययायाम्यकामदारहा । मन्थानजातिः ।
१. माया - निकृतिर्न मदनदा - कामदा । २. दान-दमनया, दानं च दमश्च नयश्च ते दानदमनयाः कर्त्तारो
दा
का म्य
या
मां नृपतिं कर्मतापन्नं श्रयन्ति, मय्याश्रिता भवन्तीत्यर्थः । मा या न म द न दा ३. हारयष्टिवाञ्छया- मौक्तिकहाराभिलाषेण मुक्ताफलान्याह्रियन्ते इत्यर्थः । ४. यमस्येयं यामी, तस्यां भवो गतो वा याम्य[स्तस्य] सम्बोधनम् - हे याम्य! - दाक्षिणात्य!, कामदारं हन्ति कामदारहा - मन्मथकलत्रविनाशकः ॥१२९॥ 1. निषेधार्थं भवसीत्यर्थः -सं. ।
हा
र