________________
६८
अनुसन्धान- ५८
स्वं स्त्रीणां कामाय हे राजन्! तेन सुभगतामानिना कृतम् । अक्षरनयेत्यादिनाऽचलक्रमत्वं सूचितम्। २. येते - यत्नं कृतवती यतैङ् प्रयत्ने, परोक्षा ए, राका– पूर्णिमास्या रात्रिः, शयनरक्षतो - निद्रारक्षणाद् दमने मे - मम ॥१२४॥ १पाता वः कृतवानहं किमु ? 'मृगत्रासाय कः स्याद् वने ?, श्कोऽध्यास्ते पितृवेश्म? कः प्रमदवान् ? 'क: प्रीतये योषिताम्? । ६हृद्यः कः किल कोकिलासु ? करणेषूक्तः स्थिरार्थश्च को ?, ‘दृष्टे क्व प्रतिभाति को लिपिवशाद् वर्णोऽर्पुराणश्च [कः]? ॥१२५॥ मञ्जरीसनाथजातिः । १लङ्केश्वर-वैरि-वैष्णवाः केऽप्रा (प्या) हुः प्रीतिरकारि केन केषाम्? । 'किमकृत कं विक्रमासिकाल : ? क्ष्माधर - वारुणीबीज-गाव आख्यन् ॥१२६॥ युग्मम् ।
आदशकंधरवधेनवः ।
१. आवो- रक्षितवान् । पाता सन् त्वमस्मान् रक्षितवानित्यर्थः । अव रक्षपालने, ह्यस्तन्याः सिवि रूपम् । २. दवो - दवानलः । ३. शवो- मृतकः। ४. कं- सुखम्, वाति - गच्छति कंवः । ५. धवो - भर्ता । ६. रवः - शब्दः । ७. बवो यः कृष्णचतुर्दश्यां भवति सिद्धान्तप्रसिद्धः । तत्र हि बवे कार्यमारब्धं स्थिरं भवतीत्यर्थः । ८. धे- धकारे दृष्टे वकारप्रत्ययः । ९. नव:- [आ]पुराण: ॥१२५॥
१. आ - समन्तात् दशकन्धरस्य- रावणस्य वधः तथा तेन वोयुष्माकम्, हे लङ्केश्वरवैरिवैष्णवास्तद्बधेन वो - भवतां समन्तात् प्रीतिरुत्पादितेत्यर्थः । २. आद- भक्षितवान्, शकं राजानम्, हे धर! - पर्वत !, वं वारुणबीजं मन्त्रिकप्रसिद्धम्, हे व!, हे धेनवः ! ॥ १२६ ॥ युग्मम् ।
'प्राह रविर्मद्विरहे कैस्तेजः श्रीः क्रमेण किं चक्रे ? | कीदृशि च नदीतीर्थे नाऽवतितीर्षन्ति हितकामाः ? ॥१२७॥ अहिमकरभैरवापे ।
१. हेऽहिमकर!- आदित्य!, भै- नक्षत्रैरवापे - लब्धा । २. अहिमकरैर्भैरवाभीषणा आपः- पानीयानि यत्र तत् तथा, तस्मिन् ॥१२७॥