________________
फेब्रुआरी २०१२
I
यस्याः सा कोपमानलाभाद्या । हे इ! - लक्ष्मि! । अयमत्र भावोऽग्निज्वालासदृशः कोप:, आदिशब्दादवाप्तः पर्वतादिस्ततः पर्वतसदृशो मानः, खञ्जनसदृशो ला(लो)भः। उत्तरेऽनुवचनेऽप्यादिशब्दान्माया तया सदृशा गोमूत्रिकाऽतीववक्रा
॥८५॥
'कीदृक्षोऽहमिति ब्रवीति वरुण [:]? काऽप्याह देवाङ्गना, हंहो! लुब्धक! को निहन्ति करिणश्रेणीं वनान्याश्रिताम्? । ३कान्तन्यस्तपदं स्तने रमयति स्त्रीं किं विधिर्वक्त्यदः ?, *किं अन्नोन्नविरोहवारणकए जंपंति धम्मत्थिणो? ॥८६॥ अवरोप्परं भेमच्छरोनखमो ॥
५७
१. अपः पातीति अप्प:, सम्बोधने हेऽप्प!, अवरोऽवरदिग्वर्त्ती, अवरस्यां दिशि यतो वसति । २. हे रम्भे ! - देवाङ्गने!, मम शरो मच्छरः । ३. नखम्, उर्ब्रह्मा, तस्य सम्बोधनम् [-ओ] । ४. हे (अवरोप्परं -) परस्परं भे- भवतां मच्छरो[-मत्सरः] न खमो न युक्तः ॥ ८६॥
खड्गश्रियौ यमब्रवीत् प्रश्नं मुनिः किल स्वकम् । तत्रैव चाऽऽपदुत्तरं कामेसिसेविषायते ||८७||
का मे– मम, असिश्च खड्गं सा च लक्ष्मीः, तयोः सम्बोधनम्– हेऽसिसे!, विषायते- विषवदाचरति ? | हे यते!, कामे सिसेविषा - सेवितुमिच्छा
112611
'कीदृग्भवेत् करक (ज) कर्त्तनकारिशस्त्रं ? 'क्वाऽकारि किं रहसि केलिकलौ भवान्या ? । ३कश्चित्तरुः प्रवयणश्च पृथग् विबोध्यौ, "किं वा मुनिर्वदति बुद्धभवस्वभावः ? ॥८८॥ नखलुभवेकोपिशमितोत्र ।
१. नखान् लुनातीति नखलु । २. भवे - हरे, अकोपि - कुपितम् । ३. हे शमि!– वृक्षभेद!, हे तोत्र !- प्राजन! ४. नैव खलु - निश्चयेन भवेऽत्र कोऽपि शमितोऽत्र संसारे न कोऽपि शान्त इत्यर्थः ॥८८॥
कुमुदैः श्रीमत् कश्चिद् गदपात्रं प्रश्नमाह यं भूमेः । तत्रैवोत्तरमलभत कैरवनिवहैरमामत्र ॥८९॥