________________
फेब्रुआरी - २०१२
४७
शुभगोरसभूमीरभि किमाह तज्ज्ञः स्मरेन्दिरापृष्टः? ।
'विरा(र)होद्विग्नः कामी निन्दन् दयितां किमभिधत्त111? ॥४८॥ क्षीरादिमनोहारीमासु । गतागतः ।
१. क्षीरादि मनांसि हरतीत्येवंशीलं मनोहारि, इश्च मा च इमं तत्सम्बोधनं - हे इम!, आसु भूमिषु । २. सुमारी, हा खेदे, नोऽस्माकं मदिराक्षी ॥४८॥
इह के मृषाप्रसक्ता नरनिकरा इति कृते सति प्रश्ने ।
यत् समवर्णं तूर्णं तदुत्तरं त्वं वद विभाव्य ॥४९॥ केलीकरतामनुजनिवहाः ।
के अलीकरता मनुजनिवहाः- पुरुषसङ्घाः? । केलीकरस्य भावः केलीकरता तां अनु आश्रित्य जनि- उत्पत्तिं वहन्ति ये ते जनिवहाः ॥४९॥
'बभ्रुः प्रभूततुरगान् स्वजनास्तवेति, राज्ञोदितः कृपणकोऽपलपन् किमाह? । २पीत्वाच्छलेन दशनच्छदमुग्रमानां, भर्ती किमाह दयितां किमपि ब्रुवाणाम्?
॥५०॥ अधरंतवाहमपिबंधवोनमे ।
१. नोऽधरन्त- न भृतवन्तः, वाहमपि- अश्वमपि, बन्धवो मे- मम । २. तवाऽधरमोष्ठमहमपिबम् । धवो- भर्ता न मे, साहङ्कारम् ॥५०॥
१श्रीराख्यदहं प्रियमभि किमकरवं? 'का च कस्य जनयित्री? ।
अदिवारी शब्दो वा कैस्त्यक्तः प्राह गृहदेशम्? ॥५१॥ यैः । त्रिः समस्तः ।
१. हे इ!- लक्ष्मि!, ऐ:- अगच्छस्त्वम् । २. या- लक्ष्मीः , ए:कामस्य। ३. इश्च ईश्च अश्च यास्तैः [द्वार इति भवति ।] ॥५१॥
'कीदृक् सरः प्रसरदम्भसि भाति काले?, २भुक्त्यर्थतेह विहिता कतमस्य धातोः? ।
उत्कण्ठयेद् विरहिणं क इह प्रसर्पन्?,
"ब्रूते शिफाध्वनिरथ श्रियमत्र कीदृक्? ॥५२॥ 1. लक्षीकृत्य इति टि० ।