________________
अनुसन्धान-५८
४स्पर्द्धावद्भिरथाऽऽहवेषु सुभटैः कोऽन्योन्यमन्विष्यते?,
'जैनाज्ञारतदान्तशान्तमनसः स्युः कीदृशाः साधवः? ॥३०॥ अपराजयः । मञ्जरीसनाथजातिः ।
१. अयो- लोहम् । २. पयः- पानीयम् । ३. रायो- द्रव्याणि। ४. जयः । ५. न विद्यते परेषु आजि:- सङ्ग्रामो येषां तेऽपराजयः ॥३०॥
पापं पृच्छति विरतौ को धातुः? 'कीदृशः कृतकपक्षी? ।
उत्कण्ठयन्ति के वा विलसन्तो विरहिणीहृदयम्? ॥३१॥ मलयमरुतः ।
१. हे मल!- पाप!, यम् । २. न विद्यते रुतं- शब्दितं यस्य स तथा। ३. मलयस्यपर्वतस्य मरुतो- वायवो मलयमरुतः- दक्षिणाऽनिलाः ॥३१॥ 'केनोद्वहन्ति दयितं विरहे तरुण्यः? 'प्राणैः श्रिया च सहितः परिपृच्छतीदम् । तार्क्ष्यस्य का नतिपदं? सुखमत्र कीदृक्?,
___ किं कुर्वताऽन्यवनितां किमकारि कान्ता? ॥३२॥ मनसा सानम विनता तानवि नमता असाबि । मन्थानान्तरजातिः ।
१. मनसा- हृदयेन । २. आनाः- प्राणाः मालक्ष्मीः ताभिः सह वर्त्तते इति सानमस्तस्य सम्बोधनं- हे सानम!, विनता स्त्री । ३. तनो वस्तानवं, इमताच्चैत्यादिना वि ३ न ५ ता ३ अञ्, तानवं विद्यते यस्य तत्तानवि। ४. नमता- प्रणाम
सा ३ विदधता असावि- प्रेरिता । षू प्रेरणे इति ॥३२॥ ___ भवति चतुर्वर्गस्य प्रसाधने क इह पटुतरः प्रकट:? ।
पृच्छत्यङ्गावयवः कः पूज्यतमस्त्रिजगतोऽपि? ॥३३।। नाभेयः । वर्द्धमानाक्षरजातिः ।
१. ना- पुमान् । २. हे नाभे!- अङ्गावयव!, नाभेयः- आद्यजिनः ॥३३॥ वैदिकविधि...
म३
1. अस्य काव्यस्य मुद्रितपुस्तके (पुण्यसागरकृतटीकासहित, सं.- म. विनयसागर) 'वैदिकविधिविशस्त....' इति श्लोकः ३४ क्रमाङ्के दृश्यते । स एवाऽत्र लिखितुमिष्टः स्यादिति सम्भाव्यते । 'औषधं प्राह' इति श्लोकस्तत्र ३५ क्रमाङ्के ।