SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४० अनुसन्धान-५८ अजामदहतभापूर्वोमेने । १. हे अजाः!- कामाः!, मेने- मनिता, का? पू:- शरीरं, कीदृक्? मदहतभा, मया अहता भाः- प्रभा यस्याः , केषां? वो- युष्माकम् । २. अजामदहतभाः पूर्वे यस्य मुजध्वनेः स, तथा मकारस्य नकारे सति ॥२२॥ जलस्य जारजातस्य हरितालस्य च प्रभुः । मुनियँ प्रश्नमाचष्टे तत्रैव प्रापदुत्तरम् ॥२३॥ काकुलालेनमृद्यते । कं च अकुलश्च आलश्च ते तथा तेषां इनः- स्वामी स तथा, तस्य सम्बोधनम्- हे काकुलालेन! । एतद् यतेविशेषणम् । मृद्- मृत्तिका ॥२३॥ 'ब्रूते पुमांस्तन्वि तवाऽधरं कः क्षणोति? को वा मनुजव्रजच्छित्? । प्रिये स्वसान्निध्यमनभ्युपेते किमुत्तरं यच्छति पृच्छतः श्रीः? ॥२४॥ नारदः । त्रिगतः । १. हे नः!- पुरुष!, रदो- दशनः । 'रो रे लोप'मित्यादिना दीर्घः । २. नराणां समूहो नारम्, तं द्यति- खण्डयति यः स तथा । ३. न आरत्नागतः । ऋ मृ गतावित्यस्य शस्तनीप्रथमपुरुषैकवचने विकरणलोपे अवर्णस्याऽऽकार इति वृद्धौ च रूपम् । अ:- विष्णुः ॥२४॥ किमिष्टं चक्राणां? २वदति बलमर्कः किमतनोत्?, ३जिनैः को दध्वंसे? "विरहिषु सदा कः प्रसरति? । ५भरं धौरेयाणां निरुपहतमूर्तिर्वहति कः?, सुरेन्द्राणां कीदृक् भवति जिनकल्याणकमहः? ॥२५॥ असममोदावहः । मञ्जरीसनाथजातिः । १. अहर्दिनम् । २. हे सह:!- बल! । सहस्शब्दो बलवाचकः । महस्तेजः । ३. मोहः । ४. दाहो- विरहसम्भवं दहनम् । ५. वहो- गलप्रदेशः । ६. असमं- असदृशं मोदं- प्रमोदमावहति ॥२५॥ 'प्राह द्विजो गजपतेरुपनीयते का? २पात्री प्रभुश्च जिनपङ्क्तिरवाचि कीदृक् । कीदृग्विधेह वनिता नृपतेरदृश्या? प्रस्थास्नुविष्णुतनुरैक्षत कीदृशी च? ॥२६।।
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy