SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २२ अनुसन्धान-५८ परेषामपायाः परापायास्तत्पुरुषः, परी(रा) पायानां विचिन्तनं परापायविचिन्तनं त(तं) परापायविचिन्तनं तत्पुरुषस्तेन । अतो 'हे विभो !' हे प्रभोऽहं कथं भविष्यामि?' अथ अग्रे मे का गतिर्भविष्यतीति भावः । इति दशमवृत्तार्थः ॥१०॥ टबार्थ : परापवादेन मुखं सदोषं - बीजा लोकना अपवाद बोलवें करी मुख सदोष; नेत्रं परस्त्रीजनवीक्षणेन - लोचन परस्त्री जोवें करी सदोष; चेतः परापायविचिन्तनेन - चित्त लोकनें अर्थे चिंतवें करीनइं; कृतं भविष्यामि कथं विभोहं ? - कीबूं । थाइस किम हे विभु हुं ? । विडम्बितं यत्स्मरघस्मरार्त्ति-दशावशात्स्वं विषयान्धलेन । प्रकाशितं तद्भवतो ह्रियैव, सर्वज्ञ ! सर्वं स्वयमेव वेत्सि ॥११॥ ॥ विडं० ॥ व्याख्या ॥ हे नाथ ! यन्मया 'स्वमिति निजं, 'विडम्बितं' गर्हणीयतां नीतं, कस्मात् ? 'स्मरघस्मरार्त्तिदशावशात्' स्मरघस्मरार्त्तिदशावशात् । स्मरः कामः । स एव घस्मरोऽद्मरः ---- इति लोकोक्तिः, तस्यार्त्तिः - पीडा; तस्या या दशा अवस्थास्तासां वश आधीनस्तस्मात् । स्मर एव घस्मरः स्मरघस्मरः कर्मधारयः, स्मरघस्मरस्यार्त्तिः स्मरघस्मरार्तिस्तत्पुरुषः । स्मरघस्मरार्तेर्दशाः स्मरघस्मरार्त्तिदशास्तत्पुरुषः, स्मरघस्मरार्त्तिदशानां वशः स्मरघस्मरार्तिदशावशस्तत्पुरुषस्तस्मात् । मया किंलक्षणेन ? 'विषयान्धलेन' विषयाः शब्दाद्यास्तैरन्धलो निमीलितविवेकलोचनो विषयैरन्धलो विषयान्धलस्तत्पुरुषस्तेन ते(त)द्विडम्बितं । 'हिया' लज्जयाऽकथनरूपया भवतस्तव एव निश्चयेन प्रकाशितं प्रकटीकृतम् । कोऽर्थो ? मम लज्जया तव तन्निवेदितं मां लज्जमानं दृष्ट्वा त्वया मदाचरितं ज्ञातमित्यर्थः । यतो हे 'सर्वज्ञ !' सर्वं जानातीति सर्वज्ञस्तत्पुरुषस्तस्य सम्बोधनं साभिप्रायं विशेषणमेतत् सर्वं समस्तं, स्वयमात्मना एवेति निश्चये त्वमिति शेषः । 'वेत्सि' जानासीत्येकादशवृत्तार्थः ॥११॥ टबार्थ : विडम्बितं यत (यत्)स्मरघस्मराति - विडम्बित जे कन्दर्पपीडा तेहनी आर्ति; दशावशात(त्)स्वं विषयान्धलेन - आपण पुंविषय सौख्य आन्धलेन; प्रकाशितं – कहूं; तद्भवतो ह्रियैव - ते तुम्ह आगल लज्जाइं; 'सर्वज्ञ ! सर्वं स्वयमेव वेत्सि - हे वीतराग ! सहू पोते जांणइं ॥११॥ ध्वस्तोऽन्यमन्त्रैः परमेष्टिमन्त्रः, कुशास्त्रवाक्यैर्निहताऽऽगमोक्तिः । कर्तुं वृथा कर्म कुदेवसङ्गा,-दवाञ्छि ही नाथ मतिभ्रमो मे ॥१२॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy