________________
फेब्रुअरी
पूत्करोमि
कुण आगल ठाकुर पोकार करूं ? ॥८॥ वैराग्यरङ्गः परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययनं च मेऽभूत्, कियद् ब्रुवे हास्यकरं स्वमीश ! ॥९॥
२०१२
२१
॥ वैरा० ॥ व्याख्या ॥ ' हे ईश !' हे स्वामिन् ! ‘स्वं' स्वकीयकृतं, 'हास्यकरं' हास्यकारकं, हास्यकरं हास्यकारकं तत्पुरुषः । 'किं ( कि) यदिति' कियत्प्रमाणम् । ‘ब्रुवे' कथयामि । कृतमिति कर्तृपदस्याध्याहारो विधेयोऽत्र । यद्यपि सर्वकृतं वक्तुं न शक्यते तथाप्यहमिति शेषः कियत्कृतं ब्रुवे । तद्दर्शयति; 'मे' मम वैराग्यस्य रङ्गो 'वैराग्यरङ्ग' स्तत्पुरुषः, ऽभू' ज्जातः । कस्मै ? ‘परवञ्चनाय’ परेषामन्येषां वञ्चनं विप्रतारणं तस्मै परेषां वञ्चनं परवञ्चनं, तस्मै तत्पुरुषः । तथा मे ‘धर्मोपदेशो' धर्मो दानादिः तस्योपदेशः कथनं धर्मस्योपदेशो धर्मोपदेशस्तत्पुरुषः, ऽभूत् । कस्मै ? 'जनरञ्जनाय' जना लोकास्तेषां रञ्जनमावर्जनं तस्मै । जनानां रञ्जनं जनरञ्जनं तत्पुरुषस्तस्मै । तथा मे 'विद्याध्ययनं' विद्यापठनमभूत् । विद्यानामध्ययनं विद्याध्ययनं तत्पुरुषः शास्त्रपठनमित्यर्थः । कस्मै ? 'वादाय' परवादिजयायेति नवमवृत्तार्थः ॥९॥
टबार्थ : वैराग्यरङ्गः वैराग्य रंग; परवञ्चनाय परवंचनानें कारण; धर्मोपदेशो धर्मोपदेश दीधउ; जनरञ्जनाय ते जननें रंजवानइं काजइ; वादाय विद्याऽध्ययनं च मेऽभूत् - वाद करवाने विद्या हुइ; कियद् ब्रुवे - केतलूं कहुं; हास्यकरं - हासनूं कारण; स्त्व(स्व)मीश हा हा ! यतीश ! ।
-
परापवादेन मुखं सदोषं, नेत्रं परस्त्रीजनवीक्षणेन ।
चेतः परापायविचिन्तनेन कृतं भविष्यामि कथं विभोऽहम् ॥१०॥
॥ परा० ॥ व्याख्या ॥ ' हे विभो !' मयेतिशेषः, 'मुखं' वदनं, 'सदोषं' सदूषणं, सह दोषैर्वर्तते यत्तत्सदोषं बहुव्रीहिः । 'कृतं' विहितं; केन ? 'परापवादेन' परेषामपवादः पराप–वादस्तत्पुरुषस्तेन । परेषामन्येषां द्वेषादिनामन्याऽसत्यदूषणोद्भावनमपवादस्तेन । तथा मया 'नेत्रं' लोचनं सदोषं कृत । केन ? 'परस्त्रीजनवीक्षणेन' सरागदृष्ट्या परनारी-विलोकनेन; परेषां स्त्रियः परस्त्रियः तत्पुरुषः, परस्त्रिय एव जना: परस्त्रीजनाः कर्मधारयः । विशेषेणेक्षणं वीक्षणं तत्पुरुषः, परस्त्रीजनानां वीक्षणं तत्पुरुषस्तेन। तथा मया 'चेतो' हृदयं सदोषं कृतम् । केन ? ‘परापायविचिन्तनेन' । परेषामन्येषामपाया अनर्थास्तेषां विचिन्तनं विचारणं तेन ।