________________
फेब्रुआरी २०१२
प्रदेशतानापन्नो निरंशोंऽशोऽणुः ॥४.४.११॥ सङ्घातभेदेभ्यः स्कन्धस्य, भेदादणोरुत्पत्तिः ॥४.४.१२॥ पर्यायः सहभावि-क्रमभाविभेदाद् द्विधा ॥४.४.१३॥ आद्यो गुणः ॥४.४.१४॥
स सामान्य- विशेषाभ्यां द्विधा ॥४.४.१५ ॥ अस्तित्व-प्रमेयत्वादिः सामान्यगुणः ॥४.४.१६॥ वर्ण-ज्ञानादिर्विशेषगुणः ॥४.४.१७॥ अन्त्यः पर्यायोऽनन्त एव ॥४.४.१८॥ उत्पादव्ययध्रौव्यलक्षणं सत्त्वं सर्वेषाम् ॥४.४.१९॥ तस्मादनेकान्तात्मकत्वमेव कान्तमिति ॥ ४.४.२०॥
॥ इति [तत्त्वनिरूपणाख्यः ] चतुर्थोऽध्यायः ॥ ॥ इति श्रीअनेकान्ततत्त्वमीमांसा ॥
* * *
९७
C/o श्रीनेमिसूरि स्वा. मन्दिर १२, भगतबाग सो. पालडी, अम.-७