SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ९६ अनुसन्धान- ५८ अपि तद्विशेषास्तद्विशेषाश्च तथा ॥४.३.२२॥ एवं स्थित्याद्यभावे ॥४.३.२३॥ आस्रवनिरोधात्मा संवरोऽपि ॥४.३.२४॥ तत्साधनानि गुप्ति - समिति - धर्मा - ऽनुप्रेक्षा - परीषहजय - चारित्राण्यपि ॥ ४.३.२५।। निर्जराऽपि ॥४.३.२६॥ तत्साधनं तपोऽपि ॥४.३.२७॥ अनशना-ऽवमौदर्य-वृत्तिपरिसङ्ख्यान-रसपरित्याग - विविक्तशय्यासन-कायक्लेश भेदात् षड्विधं बाह्यम् ॥४.३.२८॥ प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय - व्युत्सर्ग-ध्यानभेदात् षड्विधमभ्यन्तरम् ॥४.३.२९॥ एकान्तनित्यत्वे त्वस्य व्रतमनुपपन्नम् ॥४.३.३०॥ हिंसा - ऽनृत- स्तेया -ऽब्रह्म - परिग्रहेभ्यो विरमणं हि तत् ॥४.३.३१॥ तत्त्वे देव-मनुष्य-नरक - तिर्यग्गतयोऽपि न स्युः ॥४.३.३२॥ परिणाम्यसौ ॥४.३.३३॥ निरावरणो मुक्त: ॥४.३.३४॥ अशेषकर्मक्षयः परमानन्दो वा मुक्तिः ॥ ४.३.३५।। सम्यग्दर्शन - ज्ञान - चारित्राणि तत्साधनमिति ॥४.३.३६ ॥ ॥ इति तुर्याध्याये तृतीयः पादः ॥ मूर्त्तिमान् पुद्गलः ॥४.४.१॥ रूपं मूर्त्तिः, स्पर्शरसगन्धास्तन्नियताः ॥४.४.२।। अतः शरीर-वाङ्-मन:- प्राणापान - सुख - दुःख - जीवितमरणोपग्रहाः ॥४.४.३।। शब्द-बन्ध-सौक्ष्म्य- स्थौल्य-संस्थानभेद-तमश्छायाऽऽतपोद्योता इदमीयाः ॥४.४.४॥ एतेनाऽऽकाशगुणत्वादिकं प्रत्युक्तम् ॥४.४.५॥ अजघन्यगुणानां स्निग्धरूक्षाणां गुणवैषम्ये द्वयधिकादिगुणानां सदृशानाञ्च बन्धो, न गुणसाम्ये ॥४.४.६॥ देश-प्रदेश - स्कन्धा - ऽणुभेदतः स चतुर्द्धा ॥४.४.७॥ स्कन्धसम्बद्धः स्कन्धो देशो द्विप्रदेशादिः ॥४.४.८॥ निरंशः स्कन्धसम्बद्धोंऽशः प्रदेशः ॥ ४.४.९॥ देशतानापन्नः सङ्घातः स्कन्धः ॥४.४.१०॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy