SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ऑगस्ट २०११ ४३ अव० यः सः, शंवरया मृगया, आखेटकक्रिया, [तया] रहितः, दशशत संवरजः सहस्रकमलः [सहस्रदलकमलं इव इति] शत्रुञ्जयशंवरं [शत्रुञ्जयाख्यं] गिरिं प्राप्य लब्ध्वा, [संवरजासनसंस्थः] पद्मासनस्थो ध्यानं लयरूपं यः अकार्षीत्, स श्रियेऽस्तु ॥९॥ यो विस्संवररहितं तथैव संवरयुतं सुसाधूनाम् । मार्ग कथयति विससंवरैर्नुतः संवरस्त्वमसः ॥१०॥ यो विस्सं [विगतः 'स्' इति वर्णः यस्मात् तद्' विस्, इति] यः विगतः[त] सूच्यङ्काररहितः, भू(?)रहितव्यञ्जनो यस्मात्, तद्धि संवरं एतावता अम्बरं इति स्थितम्, यो जिनः अम्बररहितं वस्त्ररहितं जिनमार्गकल्पं, तथैव पूर्ववद् संवरसहितं वस्त्रसहितं स्थविरकल्परूपं मार्ग साधूनां कथयति प्रकाशयति, पुनः किंभूतो ? - नुतः स्तुतः, कैः ? विससंवरैः - विगतो गतः सवर्णो यस्मात् । [विसः, विसश्चासौ संवर इति] विस-संवरः, एतावता 'सं' अक्षररहितः वरः बलः इति तन्नामको दैत्यः, विनष्टः बलः यैः ते विस-संबलाः देवेन्द्राः तैः, किंविशिष्टः ? – 'असंवरः [अशरीरः], असः नसः [न विद्यते सं यत्र] असः - एतावता प्रधानः ॥१०॥ जय जिन ! संवरवैरिजि-दपूर्वसंवरविनाशकैविनतः । विसमोहसंवरारे ! विसमदसंवरमहासेनः ॥११॥ अव० जय० हे जिन त्वं जय, हे संवरवैरिजित् ! पञ्चवर्गपरिहारनाममालायां जिननामाधिकारे [अर्हन्नविषयो....संवरवैरिता...] । न पूर्वः अपूर्वः - न विद्यते पूर्वः प्रथमो वर्णो यत्र सः [अपूर्वः] संवरः एतावता [सं विनाकृतः] वरः इति लभ्यते, 'र-लयो र्ब-वयोरैक्यात् बर इति बलः, तन्नामा दैत्यः, तं अपूर्वसंवरं [बलदैत्यं] विनाशयन्ति इति - अपूर्वसंवरविनाशकाः तैः] बलविनाशकैः सुरनाथैविनतः । विगतः सः यस्मात् स विसः [विसं वरं पूर्ववत् बलं] विसेन बलेन युक्तः मोहः इति विसमोहः, विसमोहस्य मोहबलस्य [मोह] सैन्यस्य अरे ! [रिपो !] । पूर्ववत् - 'मद-बले काके' [] महासेनः महत्तमसिन्धुतरुः ? ॥११॥ संवरज-महासंवरज-सवरोऽद्भुत-मुखनिधानानि । यो दत्ते स जीयात् संवरभवचारुवरकण्ठः ॥१२॥
SR No.520557
Book TitleAnusandhan 2011 09 SrNo 56
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size115 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy