SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४२ "सायर सलिलं व सुद्धहिययं [] इति वचनात् । संवरजश्चन्द्रः, तद्वत् कलया सहितं वदनं यस्य तं [स- कलेन्दुवदनं], कमलनयनाभिः कामिनीभिः गीतं स्तुतम् ॥४॥ अनुसन्धान-५६ संवरज० संवरजजनितः कमलभूर्ब्रह्मा, संवरशायी नारायणः, संवरदवाहनो जलदवाहनो महेशः, तैः सेव्यः तम् । संवरजपुत्र-पुत्री [ कमल - पुत्र [ब्रह्मापुत्री ] शारदा, संवरभवमन्दिरा कमलमन्दिरा लक्ष्मीः । तया [ताभ्यां ] पूजितः तम् ॥५॥ असंवर० न विद्यते संवरं शरीरं यस्य सः असंवरः [ अनङ्गः] कन्दर्पः, तद्वद् वरः प्रधान आकारो यस्य सः - असंवर-वराकारः, तम् । संवरधिः समुद्रः, ततो जातश्चन्द्रः, तद्वद् विमलगुणसमूहगृहम् । संवरजबन्धुः कमलबन्धुः सूर्यः, तत्सदृशः प्रतापो यस्य सः, संवरजबन्धुसमानप्रतापः तम् ॥६॥ संवरसमानगुणभृत्, कषायसंवरविताशने कृष्णः । कर्मकरिसंवराऽरिः संवरनयनो जिनो जीयात् ॥७॥ अव॰ शवरो हरः, तत्समानशुभत्वात् गुणधारकः । कषाय एव शंबर: [शंबरनामा दैत्यः] कषायशम्बरः, कषायशम्बरस्य विनाशः, तस्मिन् कषायसंवरविनाशने, कृष्णः नारायणो शबरो दैत्यभेदः । कर्म चासौ करि (री) कर्मकरी, तस्मिन् कर्मगजे शम्बरारिः मृगारिः सिंहः । संवरनयनो मृगनयनो जिनस्तीर्थाधिपो जीयात् ॥७॥ जय जिन ! संवरवारक ! भवसंवरराशिसंवरे प्राप्तः । संवरमदवरगन्धः संवरजनबोधिदो देवः ॥८॥ - अव० जय हे जिन ! त्वं जय, हे शम्बरवारक ! मत्सरवारक !, त्वं किम्भूतः ? प्राप्तः, कस्मिन् विषये ? संसारसंवरराशिः [जलराशि:] समुद्रः, तस्य शवरे तटे [शबले], शंबरमदो मृगमदः, तत्समानवरो रुचिरो गन्धो यस्य सः, शम्बरजन[बोधिदः]म्लेच्छजनप्रतिबोधकः, देवः ॥८॥ - संवरया रहितो दशशतसंवरजसंवरं प्राप्य । संवरजासनसंस्थो ध्यानमकार्षीत् श्रिये सोऽस्तु ॥९॥
SR No.520557
Book TitleAnusandhan 2011 09 SrNo 56
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size115 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy