________________
११२
अनुसन्धान-५६
समगत, समगस्त । संगसीष्ट, अत्र कित्त्वपक्षेऽनुनासिकलोपो भव'त्यनुदात्तोपदेशवनतितनोत्यादीना' [६/४/३७]मित्यनेन ।
हनः सिच् [१/२/१४] इति हन्तेर्धातो परः सिच् किद् भवति । आहत, आहसातां, आहसत । सिचः कित्त्वादनुनासिकलोपः । सिज्ग्रहणं लिनिवृत्यर्थं, उत्तरत्राऽनुर्वृत्तिर्मा भूत् । आत्मनेपदग्रहणमुत्तरार्थमनुवर्त्तते, इह तु परस्मैपदेषु हन्तेर्वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं नास्ति ।।
गन्धने यम इति सिचावात्मनेपदेष्विति वर्त्तते । यमेर्धातोर्गन्धने वर्तमानात् परः सिच्प्रत्ययः किद् भवति आत्मनेपदेषु परतः ।२ गन्धनं सूचनं परेण प्रच्छाद्यमानस्याऽवद्यस्याऽऽविष्करणम् । अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्त्तते । उदायत, उदायसातां, उदायसत । सूचितवान् इत्यर्थः । सिचः कित्त्वादनुनासिक
लोपः।
तथा दक्षो दाक्षीसुतः-पाणिनिश्चख्यौ- अचीकथत् । किं? वा चोपात् पाणिपीडने इति यमः सिश्वात्मनेपदेष्विति वर्त्तते । यमेर्धातोः परः सिच्प्रत्ययो विभाषा किद् भवति आत्मनेपदेषु परतः । उपायत कन्यां, उपायंस्त कन्याम् । उपायत भार्यां, उपायंस्त भार्याम् । पाणिपीडनं विवाहनं दारकर्मेति यावत् । उपाद्यमः स्वकरणे [१/३/५६] इत्यात्मनेपदम् ॥१२॥
स्थाध्वोरिच्च विभाषा क्त्वा, थफान्तान्नोपधाच्च सेट् । "वञ्चिलुञ्चिऋतश्चाऽपि, काश्यपस्य तृषेम॒षेः ॥१३॥
व्याख्या :- स्थाघ्वोरिच्चेति [१/२/२७] सिजात्मनेपदेष्विति वर्त्तते । तिष्ठते-धातोर्युसंज्ञकानां च इकारोऽन्तादेशः सिच्च किद् भवति आत्मनेपदेषु परतः । उपास्थित, उपास्थिषातां, उपास्थिषत । घुसंज्ञकानां- अदित, अधित । कित्त्वादन्त्यस्य न गुणः ।।
विभाषा क्त्वा थफान्तान्नोपधाच्च सेडिति । नकारोपधाद् धातोः थकारान्तात् फकारान्ताच्च परः क्त्वा प्रत्ययः सेड् वा किद् भवति । ग्रथित्वा, ग्रन्थित्वा, श्रथित्वा, श्रन्थित्वा, गुफित्वा, गुम्फित्वा । नोपधादिति किं ? १. हनश्च वधः - ३/३/७६
२. यमो गन्धने - १/२/१५ ३. विभाषोपयमने - १/२/१६ ४. अत्र समाहारद्वन्द्वे पञ्चमी - ह.टि. ५. नोपधात् थफान्ताद् वा - १/२/२३