________________
ऑगस्ट २०११
१११
इगन्तादिगुपान्त्याच्च, झलादिसन् किदिष्यते ।।
झलादी लिङ्सिचावात्म-नेपदेष्विगुपान्त्यतः ॥११॥ व्याख्या : इगन्तादिगुपान्त्याच्च झलादिः सन् किदिष्यत इति । सन्ग्रहणात् क्त्वेति निवृत्तम् । चिकीर्षति, जिहीर्षति । इगन्तादिति किं ? पिपासति, तिष्ठासति । कित्त्वाभावाद् घुमास्थेतीत्वाभावः [६/४/६६] । झलादिरिति किं ? शिशयिषते । इगुपान्त्याद्- बिभित्सति, बुभुत्सते। इगुपान्त्यादित्येवयियक्षति । अकित्त्वात् सम्प्रसारणाभावः । झलादीत्येव- विवर्द्धिषते । इटा व्यवहितत्वात् सनो न कित्त्वं, तेनोपधागुणः। पाणिनीयसूत्रापेक्षया हल्ग्रहणस्य जातिवाचकत्वात् सिद्धं- धिप्सति ।।
झलादी लिङ्सिचावात्मनेपदेष्विगुपान्त्यत इति । इक उपान्त्यन्तस्थसमीपे यस्य स इगुपान्त्य:- इगुपध इत्यर्थः । तस्मात् परौ झलादी लिङ्सिचौ आत्मनेपदेषु परतः कितौ भवतः ।२ भित्सीष्ट, भुत्सीष्ट । सिचि खल्वपिअभित्त, अबुद्ध । इगुपान्त्य इति किं ? यक्षीष्ट, अयष्ट । अकित्त्वात् संप्रसारणाभावः । आत्मनेपदेष्विति किं ? असाक्षीत्, अद्राक्षीत् । अत्र कित्त्वाभावात् ‘सृजिदृशोझल्यमकिति' [६/१/५८] इत्यमागमः ।
ऋवर्णान्ताद् वा गमश्च, हनः सिच् गन्धने यमः । दक्षो दाक्षीसुतश्चख्यौ, वा चोपात् पाणिपीडने ॥१२॥
व्याख्या : ऋवर्णान्तादिति । ऋवर्णान्ताद् धातोः परौ लिङ्सिचावात्मनेपदेषु झलादी कितौ भवतः । कृषीष्ट, हृषीष्ट । सिचि खल्वपिअकृत, अहृत । 'हूस्वादङ्गा' [८/२/२७]दिति सिचो लोपः । झलीत्येववरिषीष्ट, अवरिष्ट ।
वा गमश्चेति चकारो लिङ्सिचोरनुकरणार्थः । ततोऽयमर्थः- वेति विकल्पेन गमः परौ लिङ्सिचौ आत्मनेपदेषु झलादी कितौ भवतः । संगसीष्ट,
१. इको झल् - १/२/९, हलन्ताच्च - १/२/१० २. लिङ्सिचावात्मनेपदेषु - १/२/११ ३. खल्वपीति यथार्थेऽव्ययम् - ह. टि. ४. उश्च - १/२/१२
५. वा गमः - १/२/१३