SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०६ अनुसन्धान-५६ यस्मिन्नार्द्धधातुके तदार्धधातुकं धातुलोपं, तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवति इति गर्भार्थ: ।' यथा— लोलुवः, पोपुवः, मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि विहिते यङोऽचि च [२/४/७४] इति यङ्लुकि कृते तमेवाऽचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः । धातुग्रहणं किं ? लूञ्, अनुबन्धलोपे भवत्येव, यथा- लविता । धातुग्रहणादेव प्रत्ययलोपे भवत्येव । यथा - रेट्, रिषे हिंसार्थस्य [पाणि. धा. ७३९ ] । विच्प्रत्ययलोपे उदाहरणम् । आर्धधातुकग्रहणात् सार्वधातुके भवत्येव । यथा - बोभोति, वरीवर्त्ति । इक इत्येव- अन्यत्र पापाचकः, अभाजि, रागः । पापाचक इत्यत्र यडो धात्ववयवस्य लोपे; अभाजि, राग इत्यत्र अनुस्वारस्य धात्ववयवस्य लोपेऽपि इग्लक्षणवृद्धेरभावा—दत उपधाया' इति [ ७ / २ / ११६] वृद्धिर्भवत्येव । परस्मैपदे सिचीगन्ते वृद्धिर्भवति बाधिका इति परस्मैपदे सिचि परतः इगन्ताङ्गे वृद्धिर्बाधिका भवति अर्थाद् गुणस्य । अवैषीत्, अनैषीत्, अलावीत्, अवावीत्, अकार्षीत् । अन्तरङ्गमपि गुणमेषा वृद्धिर्ज्ञापकत्वाद् बाधत इत्यर्थः। अन्तरङ्गत्वं पुनर्गुणस्याऽऽर्द्धधातुकमात्रापेक्षत्वात् । वृद्धेस्तु आर्धधातुकविशेषपरस्मैपदपर-सिचमपेक्षमाणाया बहिरङ्गत्वं च । ज्ञापकं त्विदम् - यद्यन्तरङ्गो गुणो वृद्धेः प्राक् प्रवर्त्तेत तदा सर्वत्राऽयादेशे कृते यान्तत्वादेव 'हम्यन्तक्षणे 'ति [७/ २/५] वृद्धिनिषेधे सिद्धे, तत्रैव णिश्वि-ग्रहणं न कुर्यात्, तत्तु कृतं, तत्करणाज्ज्ञायते अन्तरङ्गमपि गुणं वृद्धिर्बाधत इति । परस्मैपद इति किं ? अच्योष्ट, अश्लोष्ट । इगन्त इति किं ? अदेवीत्, असेवीत् । इगुपधस्य गुणो भवत्येव ॥६॥ जागृणिश्वीन् विहायैवा - ऽनिटां चैवाऽविशेषतः । बाधते वृद्धिरत्यन्तं, मृजेर्वृद्धिर्गुणाद् भवेत् ॥७॥ व्याख्या : जागृणिश्वीन् विहायैवेति एतान् परित्यज्य वृद्धिर्बाधिका भवति, एतेषु गुण एव भवतीत्यर्थः । जागृ- अजागरीत् । अत्र जागृ - ई इति स्थिते पूर्वं यण् प्राप्तस्तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिस्तां जागर्त्ति गुणस्तत्र कृते हलन्तलक्षणा वृद्धिः । अङ्गवृत्त इत्येतत्तु निष्ठितत्वाच्च दुर्ज्ञानत्वादनाश्रित्य यदि, तर्हि गुणे रपरत्वे च कृति लक्षणान्तरेण वृद्धिर्भवति तदा जागरक इत्यादावजन्तलक्षणां वृद्धिं बाधित्वा गुणे प्रवृत्ते रपरत्वे च 'अत १. न धातुलोप आर्धधातुके - १/१/४ २. सिचि वृद्धिः परस्मैपदेषु - ७/२/१
SR No.520557
Book TitleAnusandhan 2011 09 SrNo 56
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size115 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy