SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ऑगस्ट २०११ १०५ प्रतिषेधः प्रवर्त्तते इति सण्टङ्कः । अर्तेः संयोगाश्च ऋतः निषेधं प्रतिषिध्य गुणो भवतीत्यर्थः । लिङीति आशीषिविहितलिडादेशा आर्धधातुकसंज्ञका गृह्यन्ते । लिङि- अर्यात् । संस्क्रियते, संस्क्रियात् । इह सुटो बहिरङ्गलक्षणस्याऽसिद्धत्वात् अभक्तत्वाद् वा संयोगादित्वं नाऽस्तीत्यङ्गस्य गुणो न प्रवर्त्तते । यङिअरार्यते, सास्वर्यते, दीध्वर्यते, सास्मर्यते । अन्र्तेरड्यर्त्यश्रृणोतीनामुपसंख्यानामिति यङ्नन्द्राः संयोगादय इति द्विर्वचनप्रतिषेधो यकारपरस्य नेष्यते इति (?) । यकि- अर्यते, स्मर्यते । याद्येष्विति संभवाद् व्यभिचाराच्च विशेषणं भवतीति । लिडो व्यभिचाराद् विशेषणम्, आत्मनेपदे सीष्टादौ लिडादेशत्वेऽपि यादित्वाभावाद् गुणो न प्रवर्त्तते । यङ्यकोः संभवाद् विशेषणं, व्यभिचाराभावात् । न कितीत्यस्याऽपवादाः- दीधीवेव्योरिटश्च नेति । दीधी दीप्तिदेवनयोः [पाणि धा. ११५२] वेवीङ्वेतिना तुल्ये [पाणि धा. ११५३] । इट'श्चाऽऽर्धधातुकस्येड्वलादेः' [७/२/३५] इत्यादिना प्रकरणेन विहित आगमस्तस्य च गुणवृद्धी न भवति(तः), निमित्तानुपादानात् सर्वत्रेति भावः । वृद्धिरिटो न संभवति, [परं] यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गमिति परिभाषया इटोऽप्यङ्गेऽन्तर्भावात् अकारिषमित्यादौ लघूपधगुणः प्राप्तः, सोऽनेन प्रतिषिध्यते । श्वः कणिता, श्वो रणितेत्यादावन्त्यस्य गुणे प्राप्ते निषेधः । आदीध्यनं, आदीध्यकः, आवेव्यनं, आवेव्यकः । गुणवृद्ध्योरभावादेरनेकाचोऽङ्गस्य यण् । 'इको गुणवृद्धी' [१/१/३] इत्यतो गुणवृद्धीति पदमनुवर्तते ॥५॥ सर्वत्र न धातुलोपे, स भवेदार्धधातुके । परस्मैपदे सिचीगन्ते, वृद्धिर्भवति बाधिका ॥६॥ व्याख्या :- ते इति गुणवृद्धी सर्वत्र धातुलोपे आर्धधातुकेतिशिद्व्यतिरिक्ते प्रत्यये न भवेत्, निमित्ते सत्यपि । क्डिद्व्यतिरिक्ते सार्वधातुकार्धधातुकप्रत्यये निमित्तं, तस्मिन् सत्यपि तद्विधायकं सूत्रं न प्रवर्त्तते इत्यर्थः । धातुलोप इति अवयवे समुदायोपचाराद् धात्वेकदेशो धातुस्तस्य लोपो १. गुणोऽर्तिसंयोगाद्योः - ७।४।२९। २. दीधीवेवीटाम् - १/१/६ ३. एरनेकाचोऽसंयोगपूर्वस्य - ६/४/८२ ४. टीकायां 'स' स्थाने 'ते' इति प्रतीकोपादानम्, पुनः तत्सम्बन्धि क्रियापदं भवेत्' इत्येव निर्दिष्टमित्यसमञ्जसता कथं समाधेयेति विद्वद्भिश्चिन्तनीयम् ।
SR No.520557
Book TitleAnusandhan 2011 09 SrNo 56
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size115 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy