________________
१००
अनुसन्धान-५६
गुणकित्त्व-षोडशिका
सर्वत्रेको गुणः प्रोक्तो, विद्भिः सार्व(र्वार्द्ध)धातुके ।
उपधाया लघोरेव, पुगन्तस्याऽलघोरपि ॥१॥
व्याख्या : सर्वत्रेति निर्विशेषणे सार्वार्द्धधातुके इकः- इगन्तस्याऽङ्गस्य धातोः विद्भिः- शब्दानुशासनरहस्यबोधकैः गुणः प्रोक्तः- कथितः । अकारैकारौकारा भवन्तीत्यर्थः । तत्र 'तिशित् सार्वधातुकं' [३/४/११३] तिङिति लट् लुट् लृट् लेट् लोट् लङ् लिङ् आशिषिव्यतिरिक्तस्य ग्रहणं, लिङ्लुटामष्टादशाऽऽदेशा गृह्यन्ते । शितस्त्वमी- शप्, श्लु, श्यन्, श्नु, श, श्नम्, श्ना, शतृ, शानच्, चानश् इति । शेषमार्द्धधातुकं लडादि । तत्र सार्वधातुके उदाहरति- तरति, नयति, भवति, एति । आर्द्धधातुके- कर्ता, चेता, स्तोता । सार्व[र्वार्द्ध]धातुके इति किं ? अग्नित्वम् । अग्नित्वमित्यत्र धातोरित्यनधिकृत्य विहितत्वान्नाऽऽर्द्धधातुकसज्ञा । अग्निकाम्यति । यदि हि प्रत्यये सतीत्युच्येत तदा इहाऽपि स्यात् ।
उपधाया लघोरेवेति उपधाया यदि गुणो भवति तदा लघोरेव ।३ यथा- भेदनं, छेदनं, तोषणम् । न च भेत्ता, छेत्तेत्यत्र संयोगे गुरुरिति, गुरुत्वात् कथं गुण इति शक्यम् ? 'त्रसिगृधिधृषिक्षिपेः क्नुः' [३/२/१४०] 'हलन्ताच्च' [१/२/१०] ति क्नु-सनोः कित्त्वकरणेन ज्ञापितत्वात्, प्रत्ययादेरङ्गावयवस्य च हलोरानन्तर्यत्वे सत्यपि लघूपधायां गुणो न व्यावर्त्यत इति । यदि गुरुत्वादेव गुणो न स्यात् तदा कित्करणमनर्थकमेव स्यात् ।
पुगन्तस्याऽलघोरपीति दीर्घस्याऽपि गुणो भवति । यथा- श्लेपयति, हेपयति, क्नोपयति ॥१॥
१. सार्वधातुकार्धधातुकयोः - ७/३/८४ २. आर्धधातुकं शेषः - ३/४/११४ ३. पुगन्तलघूपधस्य च - ७/३/८६