SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ५० अनुसन्धान-५५ नितम्बिनीं ये हृदये निधाय वाञ्छन्ति मोक्षं बत मुग्धलोकाः । आरुह्य ते लोहमयीं शिलां वै तरीतुमिच्छन्ति महाम्बुराशिम् ॥९३॥ व्यापत्खनिः सद्म कलेर्निदान - मनर्थराशेः खलु याऽत्र लोके । स्वान्तं दुराराध्यतमं च यस्याः सा सौख्यहेतुर्वनिता कथं स्यात् ? ॥९४॥ सा जातिरब्धौ विनिमज्जतु द्राक् कुलं च तद् यातु विदूरमाशु । गुणा विशन्तूग्रतमे हुताशे दुःशीलतायां निरतस्य पुंसः ॥९५॥ विज्ञाय किंपाकफलोपमानां - स्त्यजन्ति विज्ञा विषयानशेषान् । मूढाः पुनस्तत्र रतिं दधाना भवन्त्यजस्त्रं जनगर्हणीयाः ॥९६॥ विद्योततोऽत्राभिजनो जनस्य शीलेन वै शुद्धतरेण शश्वत् । सालो हि मूलेन सुनिश्चलेन रुचि दधाति च्छना ( ? ) दिकैर्नो ॥९७॥ तृष्णा वञ्चनपाटवं वितथा (थ) वाग् वैधेयताऽलज्जता नैष्टुर्यं च (त्व) भिमानिता मनसिजक्रीडारुचिः प्रायशः । शुग्रोषावविवेकिता च सहजा दोषालिरित्यादिका यत्र स्याद् वनितासु तास्विह पुमान् कुर्यात् कृती को रतिम् ? ॥९८॥ कर्तव्यो नहि योषितां प्रविलसत्स्नेहं गतानामपि विश्वासो हितमिच्छुभिर्बुधजनैर्नूनं कदाचित् क्षितौ । श्रीरामेण च लक्ष्मणेन च यथा तस्मिन् वने दण्डकाऽभिख्ये सूर्पणखाप्रदर्शितबहुप्रेमाऽपि नाऽङ्गीकृता ॥९९॥ भाषन्ते मधुरं वचो यदि पुनः प्रीतिं परां दर्शयत्यानन्दं रचयन्ति विभ्रमततिं कुर्वन्ति पुष्णन्ति शम् । तन्वन्त्यादरमद्भुतं च जनयन्त्येवेह चित्ते तथाप्यात्मज्ञा नहि विश्वसन्ति कुटिलभ्रूणां चरित्रे क्वचित् ॥१००॥ अर्च्यन्ते कुसुमेषुशासनधरास्ते निर्जरा जर्जरा मुक्त्यर्थं मनुजैरनेकविधिभिर्भक्तिप्रणुन्नैस्तदा । लोके किं नहि पूजयन्ति खलु ते गर्त्तावराहादिकानज्ञानप्रचयप्रनष्टमतयस्तत्त्वार्थमुक्ता हि ॥१०१॥ नारीणां निशितैः कटाक्षविशिखैर्नो भिद्यतेऽस्मोत्तरो (?) येषामत्र पवित्रसद्गुणजुषां शीलाह्वसन्नाहकः ( ? ) ।
SR No.520556
Book TitleAnusandhan 2011 06 SrNo 55
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages158
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy