SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५५ श्रीमल्लिर्धवलक्कनामनगरे श्रीजीर्णदुर्गान्तरे श्रीसोमेश्वरपत्तने च फणभृल्लक्ष्मा जिनो नन्दतात् ॥ विंशः शङ्खपरे जिनः सचरमः सौवर्त्तके वामनस्थल्यां नेमिजिनः शशिप्रभजिनो नासिक्यनाम्न्यां पुरि ॥१२॥ श्रीसोपारपुरेऽथ रूणनगरे घोरंगलेऽथ प्रतिष्ठाने पार्श्वजिनः शिवात्मजजिनः श्रीसेतुबन्धे श्रिये । श्रीवीरो वठपद्र-नागलपुरे ष्टक्कारकायां तथा श्रीजालन्धर-देवपालपुरयोः श्रीदेवपूर्वे गिरौ ॥१३॥ चारूपे मृगलाञ्छनो जिनपतिर्नेमिः श्रये द्रोणते नेमी रत्नपुरेऽजितोऽर्बुकपुरे मल्लिश्च कोरण्टके पावॉ ढोरसमुद्रनीवृति सरस्वत्याह्वये पत्तने कोटाकोटिजिनेन्द्रमण्डपयुते शान्तिश्च शत्रुञ्जये ॥१४॥ श्रीतारापुर-वर्द्धमानपुरयोः श्रीनाभिभू-सुव्रतौ नाभेयो जिन(?) वटपद्र-गोगपुरयोः श्रीनाभि(?)श्चन्द्रप्रभः पिच्छने । मुकारेऽद्भुततोरणं जिनगृहं मान्धातरि त्रिक्षदां (?) नेमिविक्कननाम्नि चोलकपुरे श्रीनाभिभूर्भूतये ॥१५॥ इत्थं पृथ्वीधरेण प्रतिगिरि-नगर-ग्राम-सीमं जिनानामुच्चैश्चैत्येषु विष्वग् हिमगिरिशिखरैः स्पर्द्धमानेषु यानि । बिम्बानि स्थापितानि क्षितियुवतिशिरःशेखराण्येष वन्दे तान्यप्यन्यानि यानि त्रिदश-नरवरैः कारिताकारितानि ॥१६।। श्रीपृथ्वीधरकारितजिनभुवनस्तवनम् ॥
SR No.520556
Book TitleAnusandhan 2011 06 SrNo 55
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages158
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy