________________
मई २०११
सिद्धं हृदयनिरुद्धं बुद्धध्यानैर्लताभिरिव वृक्षम् । अतिशयमहिमाकक्षं वन्दे वामेयसुरवृक्षम् ॥१॥ आर्या ॥ जिनमिह नतसमयक्षं भवप्रतिपक्षं च सर्वगुणलक्षम् । केवलरमाकटाक्षं कुरु पक्षे दक्ष ! भवसमरे ||२|| आर्या ॥ सम्मतिसंयतिसन्ततिसन्नतिदुर्गतिहं, शोचनमोचन ! केवललोचन ! दर्शनदम् । त्वां हृदि शुद्धरसेन्द्रमिव प्रविधाय जिनं नागमलं प्रदहन्ति बुधा निजकर्ममलम् ॥३॥ सोपानकम् ॥
कल्याणाम्बुधरो महोदयकरो रोगार्त्तिगर्त्ताहरो, मोहोच्छेदकरो जरामरहरो विश्वाप्तकीर्त्तीश्वरः ।
भग्नानङ्गशरो हताहिपगरो विध्वस्तजन्मादरो,
ब्रह्माण्डैकदिवाकरो भवतु मे मित्रं प्रभो ! ते गुणः ||४|| काव्यम् ॥
सकलमुनिजनप्रमोदकं कमठदग्धहरिप्रतिबोधकम् ।
निखिलभवतमोविरोचनं नम जिनं जगतीत्रलोचनम् ॥५॥
मागधिका-द्रुतविलम्बितछन्दसी ॥
करुणाकरणादरणार्णवलोलतरङ्गतरं तरुणीरमणीशरणीकृतमन्मथमर्महरम् । अधरीकृतदेवनदीसुतरीशुचिगि (गी? ) विभवं
सदये हृदये ह्युदये तरणेर्नम पारगतम् ||६|| आलिङ्गनकम् ॥ विश्वेन्दीवरभाश्व (स्व) ते जिनपते ! त्रैलोक्यवाचस्पते !
शुद्धो (द्धा) चारवते प्रबुद्धमरुते सर्वत्र शोभावते ।
दुष्कर्माद्रिशते युगान्तमरुते निर्लेपतां कुर्वते,
ब्रह्मज्ञानवते नमो भगवते वामेय ! तुभ्यं यते ! ||७|| काव्यम् ॥ निचितदुरिततिमिरनिकररविविलसितं,
सकलसुकृतकुमुदविपिनविधुसमुदितम् । अरिहरिकरिसमरसमदरगहनदहनगतिं,
११
जिन ! तव गुण
॥८॥
भन्दकन्द ! कन्दनन्द ! पुण्यकुन्दवृन्दचन्द्र ! मन्दबलह !, दुष्कृतान्त ! निष्कृतान्त ! सत्कृतान्त ! विप्रशान्तजनन ! ।