SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११४ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ ५. कालन्दिका-सर्वविद्या । विशिष्टकाष्ठां प्रगुणैर्गुणैः श्रितां, सदापि चारित्रभृतां निराश्रवाम् ।। भव्या ! भवाब्धि तरितुं तरीमिव, श्रयध्वमेतां नितरां महत्तराम् ॥५॥ १. काष्ठाः- नियमाः, पक्षे काष्ठं-लकुटम् । २. गुणाः- क्षान्त्यादयः, पक्षे दवरकाः । ३. सदापि चारित्रेण-सदाचारेण भृता, पक्षे च-पुनः, सदापि अरित्रैः-आउलकै ता(?) । ४. आश्रवः- पापद्वाराणि, छिद्राणि च । वरैर्गो भरैः कौमुदं भासयन्ती, हरन्ती तमः शैत्यमुल्लासयन्ती । लसच्चन्द्रगच्छाम्बरे चन्द्रलेखा-वदाभाति सैषा सती प्राप्तरेखा ॥६॥ १. गौः- वाणी, गावः किरणाश्च । २. कौ- पृथ्व्यां मुदं-हर्ष भासयन्ती-प्रकटयन्ती, पक्षे कुमुदानां समूहः कौमुदम् । ३. तमः- पापम्, अन्धकारं च । ४. शीतस्य भावः शैत्यम् । हंसलीना सदा वै बुबंधोपासिता, सद्विधिर्वर्यशुभ्राम्बरोद्भासिता । सा प्रवीणोत्तरा राजते सारदा-ऽध्यक्षलेक्षेव शास्त्रावली सारदा ॥७॥ १. हंसा:-परमात्मा, राजहंसश्च । २. वै-निश्चितं बुधैः- विद्वद्भिपासिता, पक्षे विबुधानां-देवानां समूहो वैबुधम् । ३. विधिः-आचारः, ब्रह्मा च । वर्याः शुभ्राम्बरा:-श्वेताम्बराः तेषूद्भासिता-प्रकटिता, पक्षे वर्य-श्रेष्ठं शुभ्रं-श्वेतम्, अम्बरं-वस्त्रं [यस्याः सा] । ४. प्रवीणेषु-विद्वत्सु उत्तरा-उत्कृष्टा, पक्षे प्रकृष्टवीणया उत्तरा । ५. अध्यक्षलक्षा-प्रत्यक्षलक्षा सारदेव । शुद्धवंशोद्भवा सङ्ग्रहीताऽऽशये, सुक्षमाभृद्भिद्यद्गुणंभ्राजिता । यज्जयत्यत्र सत्कोटिशिष्टा' परान्, धर्मलक्ष्मीश्च तत्साम्प्रतं साम्प्रतम् ॥८॥ [व्यर्थकाव्यानि] १. शुद्धो वंश उपकेशरूपः पक्षे वंशः । २. क्षमाभृद्भिः-साधुभिः आशये-चित्ते गृहीता । पक्षे [क्षमाभृद्भिः] राजभिः शये-हस्ते गृहीता। ३. गुणा:- क्षमादयः [पक्षे गुणो ज्या] ४. सत्कोटिषु-उत्तमकोटिषु शिष्टा, पक्षे सत्-प्रधानम्, कोटिः अग्रविभागम् ।
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy