________________
फेब्रुआरी २०११
११३
५. धर्मलक्ष्मीमहत्तरास्तुति (सटीक) ॥ए ६०॥ प्रणम्य विज्ञातसमस्तभावं, श्रीस्तम्भनाधीशमुरुप्रभावम् ।
महत्तरां नौमि गुणैरुदारां, श्रीधर्मलक्ष्मी विजितासदाराम् ॥१॥ १. विजितं असत्-अप्रधानम्, आरं-अरिसमूहो यया ।
रत्नाकरप्राप्तपर्दाऽर्थदोत्री, नालीकवासा जिनं भक्तिक: ।
या राजते मूर्तिमतीव लक्ष्मी-महत्तरा नन्दतु धर्मलक्ष्मीः ॥२॥ १. रत्नाकराभिधे गच्छे प्राप्तं पदं-स्थानं यया । २. अर्थः - शास्त्रार्थः, द्रव्यं च । ३. अलीक:-मिथ्या वासो यस्याः सा अलीकवासा, सा ईदृशी न । लक्ष्मीपक्षे नालीके
कमले वासो यस्याः । ४. जिनः - वीतरागः, कृष्णश्च ।
बहुधान्यहितां वरसंवरदां, जिनसत्क्रमगां सुविचारपदाम् ।
विबुधा हि भजन्ति यदीयगिरं, खर्धनीमिव जीवतु सा सुचिरम् ॥३॥ १. खधुनीमिव गङ्गामिव । २. बहुधा-[बहु]प्रकारेण अन्येभ्यो जीवेभ्यो हिता-हितकर्ची, पक्षे बहुभिर्धान्यैः-सस्यैर्हिता । ३. संवरः-आश्रवनिरोधः, पक्षे शम्बरं-पानीयं, दन्त्योपदिष्टं तालव्यस्याऽपि इति न्यायात्,
बवयोरेकत्वाच्च । ४. जिनस्य-वीतरागस्य क्रमः-आचारः, तं गच्छतीति, पक्षे जिनस्य-कृष्णस्य क्रमः लक्षणया
दक्षिणः पादः, तस्माद् गच्छतीति । ५. सुविचारं पदं स्याद्यन्तं त्याद्यन्तं यस्यां सा, पक्षे शोभनो यो वीनां-हंसादिपक्षिणां चारः
परिभ्रमणम्, तस्य पदं-स्थानं यस्याम् । ६. विबुधाः-विद्वांसः, देवाश्च ।
वरालकृतिर्भव्यभावाभिरामा, सुविन्यस्तपादा स्वैरव्यञ्जनाढ्या ।
नरीनर्ति कालन्दिका नर्तिकीवद्, यदीयास्यवेश्मागणे साऽस्तु भूत्यै ॥४॥ १. अलङ्कृतिः-अलङ्कारशास्त्रम्, पक्षे विभूषणम् । २. भावा-भाग्यरूपा, पक्षेऽनुभावाः । ३. शोभनाः विन्यस्ताः पादाः श्लोककाव्यादिविरचनया यस्यां, पक्षे पादौ-चरणौ । ४. स्वराः-१४ व्यञ्जनानि-३३ तैराढ्या, पक्षे स्वरस्य-[शब्द]स्य व्यञ्जनं-प्रकटनम्,
तेनाऽऽढ्या-समृद्धा ।