________________
डिसेम्बर २०१०
[काई न दूरे देकखइ ॥६१॥]
का० । काइं किम् । दूरे पदार्थे । न देखइं (देक्खइ) न पश्यति ॥६ ॥
[फोडिन्ति जे हियडर्ड अप्पणउं ताहं पराई कवण घण । रक्खेज्जहु तरुणहो अप्पणा बालहे जाया विसम थण ॥६२॥]
रक्खे० । तरुणहो तरुणा[:] । अप्पणा आत्मानम् । रक्खेज्जहु रक्षयन्तु । बालहे बालायाः । विष(स)मथण विषमस्तनौ । जाया यातौ उत्पन्नौ । जे यौ स्तनौ । अप्पणु आत्मसम्बन्धि हियडुं ॥६२।।
[सुपुरिस कंगुहे अणुहरहिं भण कज्जे कवणेण । जिम्व जिम्व वड्डत्तणु लहहिं तिम्व तिम्व नवहिं सिरेण ॥६३॥]
सु० । हे सखि तं भणइ (भण) कथय । कवणेन(ण) केन । कज्जं(ज्जें) कार्यम् न (कार्येण) । [सुपुरिस] स(सु)पुरूसा(षाः) सत्पुरुषा[:] । कंगुहे कडधान्यस्य । अणुहरहिं अनुहरन्ते शा(सा)दृश्यं भजन्ते । तदा त्वं शृणु । जिम्व जिम्व यथा यथा । वड्डत्तणुं(णु) वृद्धत्वम् । लहहिं लभन्ते । तिम्व तिम्व तथा तथा । शिरेण शीर्षेण । नवहिं नमन्ति ॥६३।।
[जइ ससणेही तो मुइअ अह जीवइ निन्नेह । बेहि वि पयारेहि गइअ धण किं गज्जहि खल मेह ॥६४॥]
जइ० । जइ यदि । ससिनेही (ससणेही) सस्नेही । [तो] तदा । मुइआ(अ) मृत । अह अथवा । निन्नेहा(ह) निस्नेहा । जीवइ जीवति इति । बेहिं द्वाभ्याम् । पयारेहिं प्रकाराभ्याम् । धण प्रिया । गइअ गतिका गतिः (गता) । अतः किं खलः(ल) हे दुर्जन ! । मेह हे मेघ ! त्वं । गज्जहिं गजति ॥६३(६४)।
[भमरु म रुणझुणि रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिअ जसु तुहुँ मरहि विओइ ॥६५॥]
भमर(रु)० । भमर(रु) हे भ्रमर । रण्णडइ अरण्ये वने । म रुणिझुणी २८. लोअहो - प्रा.व्या., दो.वृ. २९. बिहिं - प्रा.व्या., दो.वृ.