SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ५२ २ दावाग्नि ३ सर्प ४ रण ५ समुद्र ६ जलोदर ७ बन्धनो (८)द्भवमित्यर्थः ॥४३॥ स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥ स्तोत्र० ॥ हे जिनेन्द्र ! यः जनः अजस्रं तव स्तोत्रस्रजं कण्ठगतां धत्ते, करोति-पठतीत्यन्वयः । स्तोत्रमेव स्रग् स्तोत्रस्रग् ताम् स्तोत्रस्रजम् । स्तोत्रस्रजं किम्भूताम् ?, निबद्धां-रचिताम् । कैः ? गुणैः । केन?, मया । कया ?, भक्त्या । पुनः किंलक्षणां स्तोत्रस्रजम् ?, रुचिरवर्णविचित्रपुष्पाम् । रुचिरवर्णान्येव विचित्राणि पुष्पाणि यस्याः सा रुचिरवर्णविचित्र पुष्पा, तां रुचि(रवर्णविचित्र)पुष्पाम् । मानतुङ्गं तं पुरुषं अवशा लक्ष्मीः समुपैति- समवात्(?) समीपमायातीति तत्त्वम् । न वशा अवशा, अवशा - तद्गतचित्तेत्यर्थः । मानेन तुङ्गो मानतुङ्गस्तं मानतुङ्ग-मानमहत्तरमित्यर्थः ॥४४॥ श्रीलाभविजयप्राज्ञ-शिशुना बालबोधदा ।। श्रीभक्तामरसूत्रस्य लिखिता वृत्तिरद्भुता ॥१॥ ___ इति श्रीभक्तामरस्तवावचूर्णिः ॥ संवत् १६९२ वर्षे श्रीशुद्धवंतीनगरे महोपाध्याय श्रीकल्याणविजयगणि[शि]ष्यमुख्य-पण्डितमुख्य पण्डित श्री५ श्री लाभविजयगणि शिष्य ग० नयविजयेनाऽलेखि । गणि मुक्तिविजयपठनकृते ॥ शुभं भवतु ॥
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy