SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २०१० उद्भूतभीषणजलोदरभारेण भुग्नाः उ ( द्भूतभीषणजलोदरभार) भुग्नाः । पुन:उपगताः-प्राप्ताः । कां ?, दशां - अवस्थाम् । कथम्भूतां दशां ?, शोच्याम् । पुनः- श्च्युतजीविताशाः - त्यक्तजीवितवाञ्छाः । जीवितस्य आशा जीविताशा । च्युता जीविताशा येभ्यस्ते च्यु (तजीविताशाः) ॥४१॥ २१ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवति ॥४२॥ आपाद० ।। हे नाथ ! त्वन्नाममन्त्रं अनिशं स्मरन्तः मनुजाः सद्यः स्वयं विगतबन्धभया भवन्ति । तव नाम त्वन्नाम । त्वन्नामैव मन्त्रस्त्वन्नाममन्त्रस्तम् । बन्धस्य भयं बन्धभयम् । विगतं बन्धमयं येभ्यस्ते वि(गतबन्ध)भयाः । मर्त्याः (मनुजाः) कथम्भूता: ?, आपादकण्ठं यथा स्यात् तथा मु(उ)रुशृङ्खलवेष्टिताङ्गाः । उरवश्च ते शृङ्खलाश्च उ ( रुशृङ्ख) ला: । उरुशृङ्खलैर्वेष्टितानि अङ्गानि येषां ते उ ( रुशृङ्खलवेष्टि) ताङ्गाः । पादौ च कण्ठश्च पादकण्ठम् । पादकण्ठं मर्यादीकृत्य आपादकण्ठम् । पुनः - बृहन्निगडकोटिनिघृष्टजङ्घाः । बृहंश्चासौ निगडश्च बृहन्निगडः । बृहन्निगडस्य कोटिर्बृहन्निगडकोटिः। बृहन्निगडकोट्या निघृष्टे जङ्घे येषां ते बृहन्निगडकोटिनिघृष्टज) ङ्घाः । कथं ?, गाढं-अत्यर्थम् ॥४२॥ मत्तद्विपेन्द्रमृगराजदवानलाहि - संग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याऽऽशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३॥ मत्तद्वि० || हे नाथ ! तस्य पुरुषस्य आशु - शीघ्रं भयं नाशमुपयाति । इव उत्प्रेक्षते, भिया- भयेन । यः मतिमान् तावकं इमं स्तवं अधीते । मतिरस्यास्तीति मतिमान् । तव इदं तावकम् । भयं किंविशिष्टं ?, मत्तद्विपेत्यादि । द्विपानामिन्द्रो द्विपेन्द्रः । मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः । मृगाणां राजा मृगराजः । दवस्यानलो दवानलः । वारीणि धीयन्ते अस्मिन्निति वारिधिः । महच्च तदुदरं च महोदरम् । मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च संग्रामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्र (मृगराजदवानलाहिसंग्रामवारिधिमहोदर) बन्धनानि । मत्तद्विपेन्द्रमृगराजदवा (नलाहिसंग्रामवारिधिमहोदरब) न्धनेभ्य उत्थं मत्तद्वि (पेन्द्रमृगराजदवानलाहिसंग्रामवारिधिमहोदर ) बन्धनोत्थम् । गजेन्द्र १ सिंह
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy