________________
३२
नहि भवति यन्न भाव्यं भवति हि भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥२॥
अनुसन्धान ४८
=
'समणस्स० गाहा [१६९ ] श्रमणस्य भगवत: पुनर्वीरस्य न चारु न शोभना, धर्मप्रज्ञप्तिर्धर्मप्ररूपणा । यस्माद् हेतोरुत्थानाद्याः सन्ति विद्यन्ते । इह : अत्र वीरप्रज्ञप्तौ । तथाऽनियताः सर्वे भावाः सन्ति इति क्रियायोगः । इदमत्र तात्पर्यं, उत्थानादेर्भवन्ति कृत्या एवंरूपाः, ततश्च नास्ति एतदुत्थानादि जीवानां, एतस्य पुरुषार्थाऽप्रसाधकत्वात्, तदसाधकत्वं च पुरुषकारसद्भावेऽपि पुरुषार्थसिद्ध्यनुपालम्भादिति । अह कुंड० गाहा [ १७० ] अह भणसि गाहा [१७१]
व्याख्या अथ कुण्डकौलिकस्तं देवं प्रभणति उत्थान -कर्म-वीर्यादिकं यदि नास्ति, तदा त्वं [त्वया] कथं, केन हेतुना, एषा देवऋद्धि:- सुरसम्पद् लब्धा-प्राप्ता ? अथैवं वदसि - अनुत्थानादिना तपोब्रह्मचर्यादीनामकरणेन इमा एषा देवर्द्धिः समनुप्राप्ता- लब्धा, तदा किं केन कारणेन ते न लभन्ते देवर्द्धि, येषां जीवानां उत्थानादि तपश्चरणादि कारणं नास्ति ? । अयमभिप्रायः- यथा त्वं पुरुषकारं विना देवः संवृत्तः, एवं सर्वेऽपि जीवाः । ये उत्थानादेव जीवाः, ते देवाः प्राप्नुवन्ति [भवन्ति ] । तवैतदेव 'मिट्ठे' इत्युक्त्वा नाद्यपभाए (?) पक्षे दूषणं 'अवत्तया' इयं ऋद्धिरुत्थानादिना लब्धा, ततो यदि वदसि 'प्रवरा गोशालस्य प्रज्ञप्ति:, असुन्दरा महावीरधर्मप्रज्ञप्तिः' तन्मिथ्या वचनं, भवतैव तस्य व्यभिचारादिति । इय कुंडगोलिएणं गाहा (१७२ ) इय एवं कुण्डकौलिकेन श्रमणोपासकेन भणितः सः देवः शङ्कितः संशयवान् जात: किं गोशालकमतं सत्यं उत महावीरमतं ? महावीरमतस्य युक्तितोऽनेन प्रतिष्ठितत्वादिति विकल्पवान् संवृत्तः इत्यर्थः । निजे मनसि स्वचित्ते, उपलक्षणत्वात् कंखिए भेयमावन्नो कलुसमावन्नो' । तत्र काङ्क्षितो महावीरमतमपि साधितं युक्त्युपपन्नत्वादिति विकल्पवान् संवृत्तः, भेदमापन्नः भेदमुपागतः गोशालकमतमेव साध्विति निश्चयादपोहत्वात्, कलुषमापन्नः प्राक्तननिश्चयविपर्ययलक्षणं गोशालकमतानुसारिणां मते मिथ्यात्वं प्राप्त इत्यर्थः । अथवा कलुषतां 'जितोहमनेनेति' खेदरूपमापन्न इति ततश्च न क्षमो वक्तुमुत्तरमाख्यातुं मुक्त्वा मुद्रादिकं गतो देव इति गाथार्थ: ।
सद्दालपुत्तकथायां किञ्चिल्लिख्यते - पोलास गाहा (१८५) 'आजीवुवासगो' आजीवका गोशालकशिष्यास्तेषामुपासकः । 'लट्ठो ( गाहा १८६)
Jain Education International
For Private & Personal Use Only
तत्र
www.jainelibrary.org