SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ जून २००९ ति संवहनं क्षेत्रादिभ्यस्तृणकाष्ठ- धान्यादेर्गृहादावानयनं तत्प्रयोजनानि सांवाहनिकानि । मुत्तूण० गाथा (७३) 'गंधकासाइयं' ति गन्धप्रधाना कषायेण रक्ता शाटिका गन्धकाषायी । 'अल्लमहु० ' गाहा । (७४) 'खीरामलयं ति अबद्धाऽस्थिकं क्षीरमिव मधुरं वा यदाऽऽमलकं तत् क्षीरामलकम् । 'तिल्लं सयपाग' ० गाहा (७५) - सयपाग सहस्सपागं' त्ति द्रव्यशतस्य क्वाथशतेन सह यत् पच्यते कार्षापणशतेन वा तत् शतपाकं, एवं सहस्रपाकम् । 'गंधट्टयं' ति गन्धद्रव्यैरुपल - कुष्ठादिभिर्युक्तोऽट्टचूर्णो गन्धाट्टस्तम् । अट्ठहिं गाहा (७६) 'उट्टि अघडिएहिं' ति उट्टिका महन्मृन्मयभाण्डं, तत्पूरणाय घटा उचितप्रमाणा नाऽतिलघवो नाऽतिमहान्तः । 'खोमजुअलं' ति कार्पासिकवस्त्रयुगलं । कप्पूर० ' गाहा (७७) ‘एगं च सुद्धपउमं' ति कुसुमान्तरवियुतं पुण्डरीकं वा शुद्धं पद्मम्, मालतीमाला जातिपुष्पदाम । मट्ठ० गाहा (७८) 'मट्ठ कन्निज्जजुगं' ति मष्टं अचित्रवत्कर्णाभरणम् । भोयण० गाहा (७९) 'कट्ठपेज्जयं ति काष्ठपेया मुद्गादियूष:, घृत - तिल - तन्दुलएला वा । कलसूय० गाहा (८०) १ 'कलसूय'त्ति कलायश्चणकाकारो धान्यविशेषः उपलक्षणत्वात् मुद् - मोषास्तेषां सूपः । चुच्चुय० गाहा (८१) चूचुकादयः शाका लोकप्रसिद्धाः, 'पालक्का माहुरयं' ति पालक्का वल्लीविशेष:, माहुरयं अनाम्लरसशालनकं । आगासोदग० गाहा (८२) पंचसुगंधियं' ति एभि: पञ्चभि: - एला- लवङ्ग- कर्पूर-कक्कोल - जातीफललक्षणैः, सुगन्धिभिर्द्रव्यैरभिसिक्तं पञ्चसौगन्धिकम् ॥ कुण्डकौलिककथायां किञ्चिल्लिख्यते 1=3 अथाऽपराहनसमयेऽशोकवाटिकायां प्रतिपन्न श्रीमन्महावीरधर्मप्रतिज्ञं कुण्डकौलिक- श्रमणोपासकं कश्चिन्मिथ्यादृष्टिर्गोसालकमतानुयायी ं देवो गगनस्थितः प्राह, प्रवरा [१६७] प्रशस्या गोशालकस्य मंखलिपुत्रस्य धर्मप्रज्ञप्तिर्धर्मप्ररूपणा । कुत इत्याह- यस्मान्नो नैव 'उत्थानं' उपविष्टस्य ऊर्ध्वभवनं, 'कर्म' गमनागमनादिकं, 'बलं' शारीरं वीर्यं, जीवप्रभवं वा । पृच्छ्यते वा नो नैव पुरुषकारश्च पराक्रमश्च- पुरुषकारपराक्रमं समाहारः, तस्य योगः सम्बन्धः जीवानामिति शेषः वर्त्तते । कोऽपि कश्चिदपि । तत्र पुरुषकारः पुरुषाभिमानः, स एव सम्पादितस्वप्रयोजनः पराक्रमः । तथा सर्वेऽपि भावा यत् यस्मात्, वर्णिताः भवितव्यं ते तथैव भवन्ति भाविनोऽस्ति नाश:', १ । तथा प्रतिपादिताः, गोशालकमते-यैर्यथा न पुरुषकारबलादन्यथा कर्तुं शक्यन्ते इति । "न Jain Education International = - = ३१ = For Private & Personal Use Only www.jainelibrary.org
SR No.520548
Book TitleAnusandhan 2009 07 SrNo 48
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy