________________
अनुसन्धान ४७
प्रथमार्द्धे प्रतीते सप्तेति संख्या अंशाः गणाः कल्पा इत्यनर्थान्तरम् । किंविशिष्टाः ? चातुर्मात्रा उक्तरूपा भवन्ति । तथा गुरुः गुरुसंज्ञमक्षरमन्ते प्रथमार्द्धस्यैव भवतीति । नो नैव, विषमे विषमसंख्यास्थाने प्रथमतृतीयादिके । मध्यगुरुरुक्तरूपोंऽशको भवतीति गम्यते । षष्ठः षष्ठस्थानवर्ती अयमेव मध्यगुरुरेव भवन्तीति विषमस्थापने । चतुः - मध्यगुरुकल्परहिताश्चत्वारः कल्पास्समे तद्वितीयचतुर्थलक्षणेन सहिता, एवं पञ्चषष्ठस्तद्विकल्पो चेति गाथार्थः ॥५॥ उक्तं प्रथमार्द्धस्वरूपं द्वितीयस्य तद्वक्तुमाह
बीयद्धे वेस कमो छद्वंसो नवरमेगमत्तो उ ।
अज्जा वि गाहसरिसा नवरं सा सक्कयनिबद्धा ॥ ६ ॥
द्वितीयं च तदर्द्ध च द्वितीयार्द्ध तत्राऽविकृतगाथाया एवाऽपिशब्दः पूर्वार्द्धक्रमापेक्ष एष पूर्वार्द्धविषयक्रमः परपाटिः । यदुत सप्तांशाः चतुर्मात्रा इत्याद्यनन्तरोक्तविशेषमाह - प्रथमार्द्धात् द्वितीयार्द्धे अयं विशेषो यदुत षष्ठोंऽश एकमात्रस्तु एवकारार्थस्ततश्चैकत्र एव । सामान्येन यदेव गाथालक्षणमार्याया अपि तदेवेति प्रसङ्गत एव लाघवार्थमार्यालक्षणमतिदेष्टुमत्तरार्द्धमाह - आर्याऽपि गाथासदृशी, न केवलं गाथा गाथेव दृश्यते किन्त्वार्याऽपि सर्वलक्षणसाधर्म्यात् । यद्येवंगाथायाः क इवाऽऽर्यायां विशेष इत्याह- नवरं केवलं सा आर्या संस्कृतनिबद्धासंस्कृतेन भाषाविशेषरूपेण निबद्धा रचिता गाथा न तथेत्यनयोर्विशेषः ||६|| सामान्येन गाथालक्षणमुक्त्वा शेषविशेषेषु पदपाठविशेषमाहचउलघुछट्ठे बीया सत्तमपढमा उ हवइ पयपढमं । पुव्वद्धे पच्छद्धे पंचमठाण पढमया उ एव ॥७॥
चतुर्लघुश्चासौ षष्टश्च तत्र द्वितीयाल्लघोः सप्तमे चतुर्लघावेत्र प्रथमाल्लघोस्तत आरभ्य इत्यर्थः, भवति - प्रवर्तते पदपठनं-पदस्योक्तरूपस्य पठनं भणनमित्यर्थः । पूर्वार्द्ध पश्चार्द्ध प्रतीतरूप एव, पंचमठाणे विभक्तिलोपश्च प्राग्वदविकृतत्वात् । चतु: - चतुर्लघावेव किमित्याह प्रथमकाल्लघोः पदमिति पदपठनं भवतीत्यनुवर्तते । इदमुक्तं भवति यदा गाथायाः प्रथमार्द्धे षट्चतुर्थलघुरंशको भवति तदा द्वितीयलघोः पदप्रारम्भो, अस्मिन्नेव सप्तमे प्रथमाद्वितीये पुनरर्द्धे यदि पञ्चमश्चतुर्लघुस्तदा प्रथमादेव पदप्रवृत्तिः शेषेषु चतुर्लघुषु पुनः सम्भवत्स्वपि न पदपाठनीया त
-
-
Jain Education International
,
For Private & Personal Use Only
www.jainelibrary.org