________________
मार्च २००९
लध्विति- लघुसंज्ञः, चकारः समुच्चये भिन्नक्रमश्च, प्रगुणैकमात्रं च प्रगुणं-ऋजुस्थापनायामेकमात्रं च मात्रागणनायां पश्चाद् विशेषणसमासः । कि तदित्याह-शेषमिति दीर्घमबिन्द्वाद्यक्षरादन्य भवतीति, कल्पाश्च पञ्च चतुर्मात्रा इति, कल्प्यन्ते विरच्यन्ते इति कल्पा अंशकाश्चकारः पुनरर्थे, पञ्चेति संख्यया । चतस्रो मात्रा येषु ते तथा । तानेव स्वरूपतो व्यनक्ति - व्यन्तमध्यादिगुरवः चतुर्लघुश्च ज्ञातव्या इति, द्वयोरन्ते, मध्ये आदौ च यथासम्भवं गुरुर्गुरुश्च येषां ते, तथा चत्वारो लघवो यत्र स, तथा विभक्तिलोपश्च प्राकृतत्वात् । चकारा अनुक्तसमुच्चये ज्ञातव्या बोद्धव्या । इदमुक्तं भवति, एकस्तावद् द्विगुरुरन्यो अन्तगुरुश्चतुर्मात्रत्व-नियमाच्चादौ द्विलघुपरो, मध्यगुरुराद्यन्तयोरेकैकलघुस्तदपर आदिगुरुरन्तद्विलघुश्चेत्येवं चत्वारः कल्पाश्चतुर्लघुश्च पञ्चम एत एव चतुर्मात्रागाथायां प्रयुज्यन्त इति गाथार्थः । स्थापना-द्विगु० 5 5, अन्त्यगु० ।। s, मध्यगु० । 5 ।, आदिगु० । । ।, चतुर्लघु । । । । ||३||
उक्तामेव गुरुसंज्ञां क्वचिदपवदितुमाह
भत्तीए जिणाणं कम्माई गलंति कुगइओ नासंति ।
पउबिंदू दीहपरा लहु य कत्थइ पयंते ॥४॥
पश्च-पकारश्च उश्च-उकारो बिन्दुश्च-बिन्दुमान् तस्य केवलस्याऽसम्भवात् पउबिन्दवो गुरवोऽपि लघवो भवन्ति । किविशिष्टा ? दीर्घात्पराः । किं सर्वत्र नेत्याह-कुत्रापि लक्ष्यानुसारेण पदान्ते, विभक्त्यन्तं पदं, तदन्त इत्यर्थः । अयं चाऽर्थः-पूर्वार्द्धन लक्ष्यरूपतयोक्तस्तदर्थश्चाऽयं-भक्त्योचितकृत्यकरणरूपया, केषां जिनानां-अर्हतां । किमित्याह-कर्माणि गलन्ति कर्माणि-ज्ञानादीनि (ज्ञानावरणीयादीनि) । अबन्धपरिणामतया भक्तिमतामेव जीवप्रदेशेम्यः पृथग् भवन्ति । यदि कथञ्चित् कालसंहननादिबलविकलतया निखिलकर्ममलो न गलति ततः किमित्याह - कुगतयो नरक-तिर्यक्-कुमानुषत्व-कुदेवत्वलक्षणा नश्यन्ति। अपुनर्भावेन । सर्वदर्शिनामपि दर्शनपथमवतरन्तीति ॥४॥
इह गाथाया द्वे अर्द्ध, प्रथमार्द्धमितरश्च, तत् प्रथमार्द्धस्वरूपं वक्तुकाम
आह
पढमद्धे सत्त चउमत्ता होंति तह गुरू अंते । नो विसमे मज्झगुरू छटो अयमेव चउ लहुया ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org