SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर २००८ एतस्य दुष्करकृतश्चरितं स्तुवन्तौ, मध्यं पुरो विविशतुर्विशदाशयौ तौ ॥२२॥ वातस्तदा चरमशैलवनात् स कोऽपि __जज्ञेऽन्तरभ्रकगृहं निभृतोऽपि येन । निर्वाणमाप सहसा तपनप्रदीपो, दैवे सुरक्षितमपि क्षयमेति रुष्टे ॥२३।। अस्तं भास्वति भर्तरीव नियतेोगेन यातेऽपरा, विश्वस्ता वनितेव दुःखनिचिता कृत्वा विलापावलिम् । कौसुम्भं त्यजति स्म वारिधिजले, सन्ध्या-रागच्छलात्, ध्वान्तेनाऽथ शुचा किलाऽऽशु कलिताः सर्वा दिशोऽन्या अपि ॥२४॥ [शार्दूल०] जगत्तिमिरपीडितं, निखिलमेतदालोकय ___-तुदीतकरुणाभरस्त्रिदशनाथदिग्मण्डनात् । निरीय जलधेः शनै-रधिरुरोह पूर्वाचलं, निरीक्षितुमिवौषधीः स्वयमथौषधीनां पतिः ॥२५॥ [पृथ्वी] इत्यभयाभ्युदयनाम्नि महाकाव्ये तृतीयः सर्गः ॥ एँ नमः - [चतुर्थः सर्गः] पूर्वशैलशिरसः शनैः शनै-व्योर्ममध्यमधिगत्य२३ चन्द्रमाः । कौमुदीसमुदयेन सर्वतो, लोकलोचनततीरमोदयत् ॥१॥ [रथोद्धता] नाशमाप्यत तमोगजासुरः, शम्भुमूर्ध्नि विधुना यदुद्धरः । तत्तदीयमिव लक्ष्म लक्षत-श्चर्मचीवरपदस्थितिं दधौ ॥२॥ नैकमप्यसहनेषु योजनं, स्वीकरोति न स वैरिवारभित् । ध्वान्तमिन्दुरुपहन्ति तल्लवं, बिभ्रदङ्कगतमङ्कदम्भतः ॥३॥ छत्रमेककमनङ्गभूभुजः, सार्वभौमपदवीनिवेदकम् । भाति भातिशयपूरितं विधो-मण्डलं स्फटिककुण्डलं दिवः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520546
Book TitleAnusandhan 2008 12 SrNo 46
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy