________________
२०
तत्राऽभयोऽथ मुनिपर्षदि नव्यमेकं, दृष्ट्वा मुनिं विनयवामनमूर्तिरुच्चैः ।
नत्वा जिनं विरचिताञ्जलिरित्युवाच,
को नाम धाम तपसां मुनिरेष नाथ !? ||२॥ प्राह प्रभुः प्रवरमस्ति पुरं प्रतीच्यां,
विश्वप्रसिद्धमरुमण्डलमौलिमौलिः ।
हिङ्ग्वादिपण्यनिवहस्य महानिधानं,
स्थानं श्रियामभय ! वीतभयाभिधानम् ॥३॥ तस्य क्षमाधिपतिरेष उदायनोऽस्म
द्धर्मोपदेशमधिगम्य भवाद्विरक्तः । दध्यौ ददामि यदि राज्यमभीचयेऽहं,
पुत्राय तन्नरकदुःखमयं लभेत ||४|| एवं कृपामयमनास्तनुजेऽथ केशि
सञ्ज्ञं विधाय नृपमेष सुतं स्वजामेः । आदत्त सर्वविरतिं हतकर्मराशे-,
र्भावी भवक्षय इहैव जनुष्यमुष्य ॥५॥ बद्धाञ्जलिः पुनरपि प्रयतः सुनन्दा
सूनुर्व्यजिज्ञपदिदं शमिनामधीशम् । राजर्षिस्त्रसमये भविताऽन्तिमः को ? |
भाव्येष एव जगदे जगदेकभर्त्रा ||६|| नत्वाऽथ नाथमभयः पुरमेत्य भूयः,
संसारनाटकनटत्वभयोपगूढः । इत्थं जगाद मगधाधिपतिं विवेकी,
भालस्थलप्रणयिपाणिपयोजकोशः ||७||
श्रीवर्द्धमानजिननायकपोतवाहं,
Jain Education International
चारित्र पोतमधिरुह्य भवाम्बुराशेः ।
For Private & Personal Use Only
अनुसन्धान ४६
www.jainelibrary.org