________________
डिसेम्बर २००८
तत्राऽऽययुर्जनाः सर्वे-ऽप्यभयेनेति भाषिताः । गृह्णात्विमाः स यो वह्नि, जलं नारी च वर्जयेत् ॥१०॥ लोकोत्तरमिदं लोके, कर्तुं को नु प्रभुः प्रभो !? । तेषु विज्ञपयत्स्वेवं, भूयोऽप्यभिदधेऽभयः ॥११॥ यदि युष्मासु नेदृक्षः, कोऽपि रत्नान्यमून्यहो ! । काष्ठभारिकसाधोस्तत्, सन्तु तत्त्रयवर्जिनः ॥९२।। सत्यं पात्रमयं दान-स्येदृशस्य महामुनिः । धिगस्मान् हसितो यैः स, इत्यूचुरभयं जनाः ॥९३।। मुनेरस्योपहासाद्यं, तन्न कार्यमतः परम् । अभयादिति शिक्षां ते, स्वीकृत्याऽथ जना ययुः ॥९४॥ बुद्ध्या स्वर्गिगुरुस्पर्धी-त्यभयः पितृभक्तिभाक् । निरीहो धर्ममर्मज्ञो, राज्यं पितुरपालयत् ॥९५।। श्राद्धधर्मे राजचक्रे, चैष द्वादशधा स्थिते । प्रमादं दूरतः कृत्वा, जजागार दिवानिशम् ॥९६।। अमन्देनाऽपि सा तेन, मतिब्राह्मी सुसङ्गता । कस्य चित्रीयते नैव, श्रेयःसिद्धि वितन्वती ॥१७॥ यथाऽखिलं बाह्यमरातिवृन्दं, मतिप्रपञ्चेन स तेन तेन । तथा जिगायाऽऽन्तरमप्यखिन्नो, जितेन्द्रियत्वेन सुदुष्करेण ॥९८॥
[उपेन्द्रवज्रा] ॥ इत्यभयाभ्युदयनाम्नि महाकाव्ये द्वितीयसर्गः ॥छ।।
ऐं नमः
[तृतीयः सर्गः] चैत्येऽन्यदा गुणशिले त्रिशलातनूजः,
स्वामी समागमदमर्त्यनिषेवितांहिः । तत्राऽऽशु निर्मितमथ त्रिदशैर्यथार्ह,
तद्देशनासदनमुद्यदमन्दधाम ॥१॥ [वसन्ततिलका]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org