________________
३६
अनुसन्धान ४५
सत्यम्, उदात्तानुदातस्वरितभेदात् त्रयस्तावद् अकाराः । पुनस्ते सानुनासिक-निरनुनासिकभेदात् द्विविधा-केचिदकाराः उदात्तानुदात्तस्वरिताः सानुनासिकाः, केचिदकाराः उदात्तानुदात्तस्वरिताः निरनुनासिकाः । इति अकारः षोढा भिद्यते । एवं दीर्घप्लुतयोरपि प्रत्येकं भेदकथनात् अष्टादशधा भिद्यते अवर्णः । एवम् इवर्णादयोऽपि । इत्थं समानपरिमाणत्वयुक्तत्वात् समानसंज्ञा अन्वर्था अकारादीनामित्यर्थः ।।
ननु एवं सति अकारादीनां पञ्चानामेव समानसंज्ञासद्भावे गङ्गानामित्यादौ दीर्घाकारादीनां समानकार्यं न स्यात् इत्याशङ्कां निराकर्तुं अनुक्तामपि समानातिसंख्यां पुराणव्याकरणानुसारिणी प्रमाणयितुं हस्वदीर्घप्लुतैः स्थानप्रयत्नादिभिश्च सवर्णसंज्ञां ज्ञापयितुं च 'हुस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० २.] इति परिभाषासूत्रं व्यरचयद् आचार्यः, अनियमे नियमकारिणी परिभाषेति परिभाषालक्षणात् पूर्वसूत्रेण समानसंज्ञाया अनिश्चयीकरणात् 'हस्वदीर्घप्लुतभेदाः सवर्णा.' [संज्ञाप्र० २.] इति परिभाषासूत्रेण हस्वदीर्घयोः सावर्णात् सरस्वतीकृते सूत्रे हुस्वोक्त्या दीर्घसंग्रह इति व पादपि दीर्घग्रहणात् ‘दश समानाः' [कातन्त्र. १।१।३] इति समानसंज्ञां निरणयत् ।
अपरञ्च स्थानप्रयत्नाभ्यामपि सवर्णाः [ ]
इति सवर्णसंज्ञां प्रज्ञापयत् श्रीमदनुभूतिस्वरूपाचार्यः । ननु प्लुतभेदयोस्तु समानसंज्ञां प्लुतभेदयोस्तु सवर्णसंज्ञामेव इति हस्वदीर्घप्लुतभेदा इत्यत्र भेदशब्दग्रहणात् स्थानप्रयत्नयोर्ग्रहणात् स्थानप्रयत्नाभ्यां अकारादीनां व्यञ्जनानां च सवर्णसंज्ञादर्शनात्, तथा च पाणिनिः - 'तुल्यास्यप्रयत्नं सवर्णम्' [पाणिनि १.१.९] इति तथा च कालापकव्याकरणम् - 'दश समानाः' [कातन्त्र० १।१।३] तस्मिन् वर्णसमाम्नायविषये आदौ ये दशवर्णास्ते समानसंज्ञा भवति । 'तेषां द्वौ द्वावन्योन्यस्य सवर्णी' [कातन्त्र. १।१।४] । तेषामेव दशानां समानानां मध्ये यौ द्वौ द्वौ वर्णौ तौ अन्योन्यस्य परस्परं सवर्णसंज्ञौर भवतः । सवर्णा ९ - अ आ इ ई उ ऊ ऋ ऋ ल ल तेषां ग्रहणं व्यक्त्यर्थः, तेन हुस्वयोर्द्वयोः दीर्घयोश्च द्वयोः सवर्णसंज्ञा सिद्धेतीति । १. समानसंज्ञा प्लुतभेदयोस्तु नास्ति ज़ प्रतौ । २. अन्योन्यसंज्ञौ इति कै. ३. व्यक्तिरर्थः प्रयोजनमस्य करणस्य तत् कै. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org