________________
सप्टेम्बर २००८
स्वरसंज्ञाविधानात् नवैव स्वराः, न चतुर्दश स्वराः इति श्रीमदनुभूतिस्वरूपाचार्यवचनात् ।
___ अत्र प्रतिवादी वादिनं प्रति वदति
कथं भो विद्वन् ! 'उभये स्वराः' [संज्ञाप्र० ४.] इति पञ्चवर्णात्मके सूत्रे एतवृत्तौ च 'अकारादयः पञ्च, चत्वार एकारादय उभये स्वरा उच्यन्ते ।' इति त्रयोविंशतिवर्णात्मिकायां साक्षात् नवेति पदस्य अप्रतिपादनात् कथं नव स्वरा इति नियमः कर्तुं शक्यते ?
अत्र वादी वदति
'अकारादयः पञ्च चत्वार एकारादय'' इति वृत्तौ नियमस्यैव करणात् नवेति पदस्य ग्रहणे प्रयोजनाभावात् ।
अत्र प्रतिवादी प्रतिवदति
नैवम्, नव स्वरा, इत्यङ्गीकरणे दधि आनय, गौरी अत्र, वधू आसनम् इत्यादिषु प्रयोगेषु ‘इयं स्वरे' [स्वरसन्धि १] 'उ वम्' [स्वरसन्धि ५] इत्यादिषु सूत्रेषु स्वरे इति पदेन नवानामेव स्वरेण अग्रहणात् (स्वराणां ग्रहणाद्), दीर्घानामग्रहणात् ‘इयं स्वरे' 'उ वम्' इत्यादीनां प्राप्तेरभावात्, दध्यानय इत्यादीनामुदाहरणानां सिद्धिर्न स्यात् ।
अथ चेत्, 'हस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० २.] इत्यनेन सूत्रेण दीर्घग्रहणात् सिद्धिर्भविष्यति । एवं चेत्, तहि स्वरसंज्ञाव्याघातात् 'इयं स्वरे दीर्घ च' इतीदृशं सूत्रं स्यात्, न तथा । अतः स्वराः चतुर्दशैव सर्वव्याकरणादिशास्त्र-सम्मतत्वात् सर्वशिष्टप्रमाणत्वाच्च ।
ननु सरस्वतीविहितसूत्रस्य अनुभूतिस्वरूपाचार्यविहितव्याख्यानस्य च अल्पाक्षरैः समस्तपुराणव्याकरणसम्मताऽनल्पार्थसूचनात् अइउऋलुसमानाः [संज्ञाप्र० १] इति सूत्रेण समाना इत्यस्य अयमर्थः- समानं तुल्यं मानं परिमाणं येषां ये समानाः । १. पञ्च चत्वार एकारादयः नास्ति कै. प्रतौ । २. 'प्रति' नास्ति कै. । ३. कै.प्रतौ- ननु अकारादयः पञ्चवर्णा असदृशं विलक्षणमाकारं विभ्राणाः कथं समानपरिमाणाः येन समानं परिमाणं येषां ते समानपरिमाणा इत्यर्थः कथ्यते ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org