SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १६ अनुसन्धान ४४ भावानां तत्त्वतः कर्तुं, न शक्तश्चेत्तथाप्यहम् । रत्न ! धन्येषु मन्ये स्वं यत्तस्यां व्यसनी सदा ॥ २३ ॥ श्रीरत्नोपपदाः सिंहा सूरयो धर्ममङ्गलम् । तत्तत् किञ्चित्तथाचख्याः प्राप्यते निर्वृतिर्यथा ॥२४ ॥ छः ॥ आत्मतत्त्वचिन्ताभावना चूलिका ।। छ । छ । OG (२) आत्मानुशास्ति प्राकृतः संस्कृतो वापि पाठः सर्बोप्यकारणम् । यतो वैराग्यसंवेगौ तदेवं परमं रहः ॥ १ ॥ अहो ! मूढं जगत्सर्वं भ्राम्यदेव बहिर्बहिः । आकुलव्याकुलं नित्यं धिक्किमाश्रित्य धावति ॥ २ ॥ संप्राप्य शासनं जैनं युक्तं किं मम नतितुम् । किंवा प्रमाद्यतो युक्तं रोदितुं मे मुहुर्मुहुः ।। ३ ।। आत्मन्नहो ! न ते युक्तं कर्तुं गजनिमीलिकाम् । प्रातर्गतं तु सन्ध्यायां स्थातुं कस्तव निश्चयः ।। ४ ।। एतं भवं परत्राहो ! नवं स्मृत्वा प्रमादिनः । बाढमाक्रन्दतो मूढ ! मूर्द्धा यास्यति खण्डशः ॥ ५ ॥ कस्मैचित्रास्मि रुष्यामि इष्याम्यात्मन एव हि । यद्वच्मि तत्र(न्न) जानामि तत्सम्बोध्यः परः कथम् ।। ६ ।। ये वाचाऽऽरव्यान्ति वैराग्यं यान्ति भेदं न मानसे । ह हा हा ! का गतिस्तेषां कारुण्यास्पदभागिनाम् ॥ ७ ॥ किं करोमि क्व गच्छामि क्व तिष्ठामि शृणोमि किम् । संसारभयभीतस्य व्याकुलं मे सदा मनः ।। ८ ॥ ध्यात्वा किं वच्मि किं तूष्णीं कोऽहं भीतोऽपि निर्भयः । अहो ! मे नटविद्येयं हहा हु काप्यलौकिकी ।। ९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520544
Book TitleAnusandhan 2008 06 SrNo 44
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy