SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ मार्च २००८ रुद्रग्रन्थिमथ श्लथत्वविधिना यच्छोटयत्यादरात्(द) ग्रन्थिच्छोटनकर्म निर्मलधियस्तद् बोधयांचक्रिरे ॥२२।। १७५ उत्तानो भूमिशायी कृतविततकरः शीर्षपार्श्वद्वयेन स्तम्भीभूतांहिपाणिर्गगनगवपुषा मण्डपत्वं दधानः । कुर्यात् कम्पं स्नसानामुपहितहृदयो दक्षिणस्य' ध्रुवस्य स्यादुत्क्षेपाय नाभीजलरुहिकमलोल्लञ्छनं नाम कर्म ॥२३॥ १७६ ५ अथ कर्मत्रयनिर्माण-निर्मलीभूतजाज्वलज्ज्योतिः । शीतातिस्फूर्तिहरा देहान्तस्तपति तपनकला ॥२४॥ १७७ उत्तानः कृतगुणतत्त्वबुद्धिचेता बिभ्राणः सरलितपादयोः कराभ्याम् । अङ्गुष्टौ धनुरिव ताडयेत्तनुं यत् कोदण्डं तदिदमुदाहरन्ति कर्म ॥२५॥ १७८ मुकारचैक्रमनुचेतसि याति रुद्ध्वा रन्ध्राणि पाणियुगलं भुवि संनिवेश्य । चक्रभ्रमं भ्रमति विभ्रमबन्ध्यबुद्धि-स्तच्चक्रकर्म कृतकर्मभिरभ्यधायि ॥२६।। १७९ आधायोत्कटिकासनं नियमयन् हृत्कण्टकान्तर्मनो लोहेभ्योऽमृतवल्लितोऽथ जनितां कृत्वा शलाकां शुभाम् । विन्यस्यन् वदनाम्बुजे क्रमवशाल्लिङ्गेन निःसारयेदित्थं शोधनकर्म कोष्टकुहरं यत्नेन संशोधयेत् ॥२७॥ १८० ६ अथान्तर्जठरं जाग्रद्वह्निज्वालावलीमयी । पञ्चभिः कर्मभिः सेयं दीप्यते दीपनी कला ॥२८॥ १८१ आनन्दमन्दिरनिरन्तरचित्तवृत्ति-र्यद्दक्षिणोत्तरविवतितकुक्षिरन्तः । उन्मीलयेनकुलवत् कमलासनेन निर्मान्ति कर्म नकुलीति तदात्मवन्तः ॥२९॥१८२ उच्चैर्वज्रासनमनुभवन्नङ्गलानां चतुष्के नामेश्चन्तिः सरलितवलीबन्धमाधाय धीरः । चेतोवृत्तिं नयति नितरामुड्डियाणाख्यपीठं प्राणानेतद् द्रढयतितरामुड्डियाणाख्यकर्म ॥३०॥ १८३ १. आधारः, प्रथमम् । २. मणिपूरकोपरि । ३. अनाहत । ४. अनाहताधः । ५. अनाहतोपरि । ६. नाभेश्चाधः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy