SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४३ नादोदयानकदत्तचित्तो वज्रासनान्तः कृतपाणियुग्मः । मयूरवद् व्योमनि नृत्यतीव मयूरकर्म प्रथितं ततस्तत् ॥१६७॥ मध्येमध्यमोक्पदं कृतपदं चेतः समासूत्रयन् रुन्धानश्च नवापि देहविवराण्युद्यन्मरुन्मारणात् । निर्लक्ष्येक्षणमेकमंहिकमलं जानौ समारोपयन् मूर्ध्यन्यच्च भवेच्च भैरव इव स्याद् भैरवं कर्म तत् ॥१५॥ १६८ ३ अथ धातुरससमीरेन्धननिधनविधानबद्धसंरम्भा । कर्मत्रितयाभ्यासात्(द्) ज्वलनकला ज्वलति देहान्तः ॥१६॥ १६९ . कृत्वा पाणि पायुशिश्नान्तराले बद्ध्वा यत्नादुड्डियाणाख्यबन्धनम् । भानोश्चैण्डे मण्डले लीनचित्त-स्तच्चण्डालीकर्म निर्मीयते स्म ॥१७॥ १७० दृढं कृत्वा वज्रासनमनुगुदान्तेन कलिते कलोत्पत्तिस्थानं मनसि विधुवन् गाढमभितः । ज्वलज्ज्वालामालाकुलमखिलमङ्गं वितनुते कृती ज्वालामालिन्युदितमिति कर्म स्फुटमिदम् ॥१८॥ १७१ यत्रासूत्रितमूत्रभाण्डकुहरक्रोडाधिवासं मनः कृत्वा किं च समुन्मिषन्निजवपुर्वज्रासनोज्जागरम् । गाढं पाणितलेन कोमलतरग्राव्णाऽथवा घर्षयेद्वजीकर्म तदत्र वज्रसमतामङ्गस्य धत्ते क्रमात् ॥१९॥ १७२ अथ संजायते प्रौढं रसशोषैककारणम् । शिखिप्रभाप्रभोल्लासो मांसलः कर्मभिस्त्रिभिः ॥२०॥ १७३ वज्रासनस्थितवपुः स्थिरधीः स्वचित्त-मारोप्य रेचकसमीरणजन्मचक्रे । स्वान्तेन रेचयति नाडिगतं समीरं तत् कर्म रेचकमिति प्रतिपत्तिमेति ॥२१॥१७४ ध्यानस्थाननिधानतागतमना विस्तार्य तिर्यक्कृता“वन्योन्यं चरणौ विधाय विवृतं पाणिद्वयेनाऽऽननम् । १. आधारः । २. मणिपूरकोपरि । ३. आधाराधः । ४. स्वाधिष्ठानोपरि । ५. आधारोपरि । ६. आधारोपरि । ७. अनाहतोपरि । ८. ०वत्यन्तं । ९. विधृतं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520543
Book TitleAnusandhan 2008 03 SrNo 43
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages88
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy