________________
अनुसन्धान ४३ वातव्याधिमुपाधिसम्भवविषं श्लेष्मप्रकोपं तथा मूलादेव निहन्त्यथो यदि मनाक् सम्मील्य नेत्रद्वयम् । विन्यस्यन् करकुड्मले जपति तं मन्त्रं विलोमाक्षरं कल्पान्तादपि दष्टकस्य कुरुते स्वैरं 'तदाकारणम् ॥८१॥ २५ (२६)||३ चक्रेऽनाहतसंज्ञके परिणमज्जम्बूफलश्यामले न्यस्यन्तं भुवि वामपाणिकमलं जानौ च सव्यं करम् । संवीतस्फुटयोगपट्टनिभृतं चक्षुस्तथाऽन्तर्मुखं तत्त्वं तं सहजं स्मरन्नरमिति ध्याता तथैव स्थितः ॥८२॥ २६ (२७) मन्त्रमष्टशतकल्पितमानं द्वादशाक्षरममुं समुदीर्य । जङ्गमादिविषवेधेमशेषं दोषजातमपि च प्रतिहन्ति ॥८३॥ २७ (२८) किञ्च रात्रिन्दिवं योगी तदेकध्यानमानसः । अतीन्द्रियमपि ज्ञान-मासादयति सादरः ॥८४|| २८(२९) ॥ ४ मन्त्रः “स प ठ मुरि छ च मा म य ण ट" ।। विशुद्धचक्रे घनसारवर्ण-मेकत्र सम्मीलितपाणिपादम् । तं सम्पुटस्थानकसंस्थदेहं तदन्तरन्यञ्चितलोचनं च ॥८५।। २९ (३०) स्मरन्नरं नित्यमिति स्वयं च तथास्थितो मन्त्रमुदीरयेद् यः । विषं न किञ्चित् प्रभवत्यमुष्य सारस्वतं चाद्भुतमभ्युदेति ॥८६॥ ३०(३१) ॥५ मन्त्रः “अइउऋलएओअं प्रणवउद्गीथ हुं फुट् बषट् स्वधा स्वाहा ॥" बहिः पक्षे "आ ई ऊ ऋ ल ऐ औ अ: नमः अमृतं " ॥ यश्चके ललनाभिधे विचिनुते बन्धूकबन्धुद्युति साक्षाद् दक्षिणपादपद्मविलसत्सद्योगपट्टस्थितिम् । ईषन्मीलितलोचनं नरमसौ दंष्ट्रानखादेविषं शूलादिज्वरदोषपोषमपि च व्यालुम्पति प्राणिनाम् ॥८७॥ ३१ (३२) ॥ ६ "आ स प श यु रि दि च म प य ण" ॥ आज्ञाचक्रे पाटलापाटलाङ्ग वामे पादे प्रोल्लसद्योगपट्टम् । भ्रूयुग्मान्तय॑स्तनेत्रं पुमांसं पश्यन् योगी मन्त्रमुच्चारयंश्च ॥८८॥ ३२ (३३) १. तदाभारणं । २. विषवेगविशेषं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org