________________
जुलाई-२००७
क्षणादसारं सारं वा वस्तु सूक्ष्मः परीक्ष्य(क्ष)ते ।। निश्चिनोति मरुत् तूर्णं तूलोच्चय-शिलोच्चयौ ॥३६।। न दौःस्थ्येऽपि निजं स्थानं मोक्तव्यमिति मे मतिः । मृगलक्ष्मा पुनर्लक्ष्मी किं नाऽभ्येति नभ:स्थितः ॥३७।। लोकरूढिरिह प्रौढिरस्तु वस्तु यथा तथा । दधि मङ्गलधौरेयं न पुरनर्दुग्धमभ्यधुः ॥३८॥ उत्कर्षश्चापकर्षश्च भृत्यानां भर्तृ-कर्तृकौ । दिवसान् दिवसाधीशश्चिनोत्यपचिनोति च ॥३९।। आत्मने तेऽभिद्रुह्यन्ति ये द्रुह्यन्ति महात्मने । पश्योलूकमनालोकमसूयन्तं विवस्वते ॥४०॥ सद्वृत्तैर्महतां पङ्क्तिराप्यते पितुरात्मजैः । मङ्गलेषु समश्चक्रे पत्रै म्रस्य पिप्पलः ॥४१॥ धुरि ये मधुरात्मानः पुरतस्तेऽपि निष्फलाः । फले दुर्भक्ष्यमिक्षूणामक्षुण्णं - नेक्ष्यते ॥४२॥ यस्य लोकोत्तरं सूत्रमापदोऽप्यस्य सम्पदः । शद्धिमग्नौ निमग्नस्य पश्य कस्याऽपि वाससः ॥४३॥ सुकृते सर्वतः क्षीणे श्रीरपि क्षीयते क्षणात् । पाथ:पूरे कथाशेषे किं नन्दत्यरविन्दिनी ॥४४।। विभवाभोगविस्फूर्तिरदृष्टैकनिबन्धना । क्षोणीरुहपरीणाहे हेतुर्मूलस्य सौष्ठवम् ॥४५॥ अहितेऽभ्युदिते कान्ति समूलस्यापि नश्यति । छायातरोरपि च्छाया फॉल्गुनेन [वि]नश्यति ॥४६।। स्थानोपज्ञं विदुः स्थाने महिमानं मनीषिणः । देवशीर्षेषु शेषेति माल्यं निर्माल्यमन्यथा ॥४७॥ व्यवसीयः प्रणाशाय स्वयमस्थाननिर्मितः । बीजस्याऽपि प्रणाशाय प्रारब्धा कृषिरूषरे ॥४८।। तेजस्विनः प्रभोः शत्रूनुच्छिनत्ति परिच्छदः । वैकर्तनास्तमोवार्ता निशुम्भन्ति गभस्तयः ॥४९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org