________________
अनुसन्धान ३९
इति सुललितभावं शास्त्रमेतत्स्वकण्ठे,
प्रणयति' निपुणो यः सन्ततं सत्सभासु । अनुभवति स शोभामुल्लसन्तीमनन्तां,
न भवति परभावव्यग्रचेताः कदापि ॥११७।। श्रीदेवतिलकसूरिर्जयति यशःपूरपूरितदिगन्तः । नरनरपतिमुनिमधुकरचुम्बितचरणारविन्दयुगः ॥११८।। श्रीनर्मदाचार्यगुरोः प्रसादात्, श्रीपद्मराजस्य पदौ प्रणम्य । श्रीकर्मचन्द्राह्वययाञ्चयेदं, श्रीहेमरत्नेन कृतं च शास्त्रम् ॥११९।। सद्वाक् शुभार्थः सुगुणः सुवृत्तो-ऽलङ्कारकान्तः शुभभावशाली । परोपकारप्रवणः स चाऽयं, ग्रन्थश्चिरं जयति सज्जनवज्जगत्याम् ॥१२०॥ मुष्णाति चेतांसि स भूपतीनां, पुष्णाति चातुर्यमपि स्वकीयम् । मथ्नाति मानं ननु दुर्जनानां, यः कण्ठपीठस्थमिदं करोति ॥१२॥
इति श्रीभावप्रदीपाभिधं शास्त्र समाप्तं । श्रीरस्तु । शुभम्भवतु । श्रीः ।
विक्रमतो वसुवह्निक्षितिपतिवर्षे (१६३८) तथाऽऽश्विने मासि । विजयदशम्यामयमिति विनिर्मितो हेमरत्नेन ॥१॥
[श्रीज्ञानतिलकसूरिर्जयति यशोराशिभासितदिगन्तः । नरनरपतिमुनिमुनिवरपूजितपादारविन्दयुगः ॥१॥
तत्पट्टे हेमरत्नाह्वसूरिर्जयतु शास्त्रकृत् । विनिर्वसितपापौघः प्रसन्नानपङ्कजः ॥२॥
१. ब. निर्माति । २. ब. प्रेती- 'ग्रन्थश्चिरं तिष्ठत् सज्जनोपि' इति पाठः । ३४-५. ब. नास्ति । ६. ब. प्रतौ 'विजयदशम्यामेतद् विनिर्मितं हेमरत्नेन' इति पाठः । ७. [ ] कोष्ठकान्तर्गती द्वावपि श्लोकौ हेमरत्नस्वलिखितादर्श अ.संज्ञकपुस्तके न स्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org