________________
अप्रिल-२००७
नितम्बिनीतुम्बकयोरिवोच्चै-र्वक्षोजयोमूर्धनि वेणुदानात् । निवेदयामाशु बभूव वीणां, पति मनोभावविदां वरिष्ठम् ॥१०९।। प्रसाधिकाङ्कस्थितपादपद्मं, काचिनिजे सद्मनि सन्निविष्टा । अनूप्रवक्त्रापि रसालशीर्षात्, कथं स्वहस्तेन फलं लुलाव ॥११०।। सौधस्याङ्के यत्र सा सन्निविष्टा, तत्राऽधस्ताद्धस्तसादस्ति चूतः । हस्तेनैषाऽनू वक्त्राप्यखेदं, जग्राहैवं तत्फलं तस्य मूर्ध्नः ॥१११।। काचिन्निरागस्यपि नायके स्वे, कस्मात्प्रकुप्यावनताऽऽननाऽभूत् । ततोऽनुतापं महदादधत्या, क्रोडे धृतोऽसावनया तदैव ॥११२।। दृष्ट्वा स्पष्टं दशनवसने कज्जलं सा स्वभर्तु
मत्वा कान्तं परललनया भुक्तमुक्तं चुकोप । पश्चान्नम्रा मणिमयगृहं प्राङ्गणे धौतनेत्रं,
वक्त्रं दृष्ट्वा स्ववगतरहस्यानुतापं चकार ॥११३।। कर्पूरं कुमुदाकरं कुमुदिनीकान्तं च कुन्दोत्कर',
कैलाशं ऋतुभुग्नदीमपि दलत्काशं पयो भःपतिम् । डिण्डीरं जलधेश्च मन्त्रिमुकुट ! श्रीकर्मचन्द्रप्रभो !
ह्यन्तर्वाणिगणस्य लोचनपथं गच्छन्ति नैते कथम् ॥११४।। त्वत्कीर्तिप्रसराता धवलिते विश्वेऽखिलेऽपि प्रभो,
सावादिह संप्रमग्नवपुषः कर्पूरकुन्दादयः । लक्ष्यन्ते कविभिर्न चेति मिलिता दीपेऽन्यदीपप्रभा
ऽभिन्नत्वेन न लक्ष्यते खलु यथा कोऽन्यो वृथा विस्तरः ॥११५।। नेदं व्योमसरोवरं सुरपतेनैतानि भानि ध्रुवं,
चञ्चत्प्रोज्ज्वलमौक्तिकानि विलसन्नायं विधुदृश्यते । श्रीमन्त्रीश्वरकर्मचन्द्रसुयशोहंसोऽयमित्युज्ज्वल
स्तारामौक्तिकमालिकां कवलयन्नेवं बुधैर्लक्ष्यते ॥११६।। १. ब. मण्डनका । २. ब. प्रतौ-कर्पूरं कुमुदाकरः कुमुदिनीकान्तश्च कुन्दोत्करः, कैलाशः क्रतुभुग्नदी प्रविदलत्काशः पयो भः पतिः, डिण्डीर:- इति पाठः । ३. ब. पुञ्जोत्करौ संहतिः । ४. ब. गङ्गा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org