SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 30 यस्मादस्मादृशानामुपलसमधियां धर्मिताऽभूदकस्माज्जीयाज्जैनागमोऽयं निबिडतमतमः स्तोमतिग्मांशुबिम्बम् ॥११॥ निःशङ्का वीतपङ्का यदि हृदि भवतां सच्चिदानन्दवाञ्च्छा विज्ञाः सज्ज्ञातदृष्ट्या परिहरि (र) त तदाऽनल्पसङ्कल्पजालम् । सेवध्वं देवदेवं जिनवरमचिरानन्दनं सर्वदा यो द्वीपः संसारसिन्धौ त्रिभुवनभवनज्ञेयवस्तुप्रदीपः ॥ १२ ॥ सोऽपि स्वामिन् ! स्वभावात् सकृदपि भवतः पूजयन् पादपद्मं प्राज्यं प्राप्नोति राज्यं निरुपमकमलां निर्मलां चाप(पि) कीर्त्तिम् ॥ विप्रो वा क्षत्रियो वा वणिगपि घटकृल्लोहकारोऽपि यद् वा यः पूर्वं तन्तुवायः कृतसुकृतलवैर्दूरितः पूरितोऽघैः ॥१३॥ आरूढो रूपलक्ष्मीं गुणततिषु तथा प्रौढिमानं भवान् भोः ! पूर्वं प्रौढं त्रिलोकी- परिवृढ ! सुदृढं तीर्थकृत्कर्मबन्धात् । नृणां स्त्रीणां सुराणां नयनपथि यथा विंशतिस्थानकादिप्रत्याख्यानप्रभावादमरमृगदृशामातिथेयं प्रपेदे ॥१४॥ दुर्गं दुष्टोपसर्ग विदलयति सतामार्हतानां समूलं । लक्ष्मीमुख्यं च सौख्यं रचयति रुचिरं स्वीयचित्तानुकूलम् ॥ निर्वाणी यक्षिणीयं गरुड इति सुरः शासने ते मुनीनां सेवाहेवाकशाली प्रथमजिनपदाम्भोजयोस्तीर्थरक्षः ||१५|| अनुसन्धान- ३८ रङ्गगौराङ्गकान्तिर्विशदवृषगतिर्निष्कलङ्कं मृगाङ्कं धत्ते नित्यं भवानीहितकरणरतो. ब्रह्मचारिश्रितो यः ॥ सर्वज्ञः शान्तिनाथः प्रबलबहुलसद्दर्पकन्दर्पघाते दक्षः श्रीयक्षराजः स भवतु भवतां विघ्नमर्दी कपर्दी ||१६|| एवं श्रीज्ञानसिन्धुप्रसरशशधरः सद्गुणौघैः गंभीरश्चत्वारिंशत्सुचापप्रमिततनुविभाभासुरो विश्वमित्रम् । श्रीशान्ते ! पीतकान्ते त्रिजगदभिमते चारुचिन्तामणिस्त्वं ख्यातः शुद्धावदातः स्तुत इह मयका सम्पदां सद्म जीयाः ॥१७॥ 'इति श्रीशान्तिनाथस्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520538
Book TitleAnusandhan 2007 01 SrNo 38
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy