SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ३६ अणीहदे शान्तरसामृतं हृदं, पार्वं जिनं पार्श्वसुरेण सेवितम् । हरिप्रपूज्यं हरिनीलदेहं, नित्यं स्तुवे नित्यपदे निवासिनम् ॥१८॥ नाम्नार्थेन च यापुरे वसुनौ(?) श्रीवर्धमानोदये, देवार्यं वरपित्तलापरिकरं सत्तोरणोद्भासितम् । श्रीचन्द्रप्रभ[वासुपूज्य-वृषभ] श्रीशान्तिमुख्यानहं, सप्त श्रीजिनमन्दिरेषु सततं संस्तौमि सर्वार्हतः ॥१९॥ अथ च डुङ्गहपुरादजयदुर्गावके, शैलवलये स्तुवे घट्टसीमां जिनान् । ऋषभमीडरपुरे कुमरजिनमन्दिरे, नौमि तलहट्टिकासर्वचैत्यानि च ॥२०॥ तारणेऽजितजिनं कुमरचैत्ये स्थिरं स्थापिते धर्मसूरिभिरहं संस्तुवे । एवमारास-पौसीन-देवेरिका-चैत्रभावाद्रिचङ्गापुरादौ जिनान् ॥२१॥ देशेऽस्मिन् मेदपाटे गिरिवरनिकटैः सङ्कले मध्यभागे, ग्रामे-ग्रामे विशाला बहुजिनकलिताः सन्ति मुख्या विहाराः । बाह्येप्येवं प्रभूता ध्वजकलशयुता भान्ति सर्वेषु तेषु, दृष्टाऽदृष्टेषु नित्यं सकलजिनपतीन्नौम्यहं बोधिवृद्ध्यै ॥२२॥ देशे-देशे नगर-नगरे ग्राम-ग्रामेऽचलादौ, प्रासादा ये नयनपथगास्तेषु चान्येषु नित्यम् । अर्चाः सर्वा गुरुलघुतराः स्तौमि तीर्थेश्वराणां, त्रौलोक्यस्था सुरनरनताः शाश्वताऽशाश्वताश्च ॥२३॥ इत्थं श्रीराजगच्छोदयगिरितरणेर्धर्मघोषस्य सूरेवंशे जातः सुभक्त्या हरिकलशयतिस्तीर्थयात्रां विधाय । नित्यं स्मृत्यै जिनानां विपुलतरलसद्भावपूर्णान्तरात्मा, कांक्षन् पुण्यस्य वृद्धि प्रमुदितमनसा तीर्थमालां स्तवीति ॥२४।। इति श्रीमेदपाटदेशतीर्थमालास्तवनम् ॥ निदेशक प्राकृत भारती अकादमी १३-ए, मेन मालवीय नगर - जयपुर-३०२०१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy