________________
September-2006
35
शङ्खिनीयुवत्या असुसंभावितस्वशरीरस्वरूपायाः इति यावत्, कुचौ कुरीत्या रक्षितौ कथमप्येकवारं दृष्ट्वाऽत्यन्तं भग्नमनःपरिणामतया कोऽपि पुनर्नाऽऽलोकयति, अत एव वल्लभावप्यनिष्टौ जायेते - इति सत्यम् - ॥२७॥ मूल दोहा - सारंग ! स्वारथ सकल जग, परकजि किस हुं न पीर ।
तरणक त्रंबा कु तिजइ, खिणु अणपीवत खीर ॥२८॥ व्याख्या - सकलमपि जगत्, स्वार्थाय, स्वकार्यकरणशीलम्, परं कस्याऽपि परकार्यार्थ पीडा नास्ति, तदेवाऽऽह- तर्णको वत्सः क्षणमपि क्षीरमपिबन्, स्वार्थहानिवत्तया स्वविरहजनितदोषमविचार्येति शेषः 'तंबां' देशी भाषया, स्वजनन्यै(जननीं) धेनवे (धेनुं) तत्कालमेव त्यजति - इति स्वार्थश्चिन्त्यः ||२८||
अथ कथमपि वत्सतरोऽपि कृतघ्नतया वृद्धि प्रापत्, स्वजननीं (च) तिरस्करोति-इति नीचस्वभावत्वमेव ते, नीचभावभावितो जनोऽप्येवं विदधातिइत्येनमेवाऽर्थं दर्शयति - मूल दोहा - वडपद जितु पाउहि विगुण, पखि तिन चिंतहि पाप ।
___अगनि अंग धुंअ होइ घनु, अगनि बुझावहि आप ॥२९।।
व्याख्या - विगुणोऽर्थात् कृतघ्नः, यतः यस्मादेव, वडपदमुच्चपदवीं महत्त्वमिति यावत्, प्राप्नोति, तस्यैव पक्षे तदर्थमेव, पापं परिभवं पीडनं चिन्तयति, यथा हेतुमुदीरयति - अग्नेरेवाङ्गं वह्निसमुद्भूत एव धूमो, घनो मेघरूपो भूत्वा, स्वमुच्चतरं मन्यमानः वर्षित्वेति शेषः, आत्मना स्वयं, स्वोत्पत्तिनिमित्तभूतमग्निमेव विध्यापयति तिरस्करोति - इति दुर्जनाचारः ॥२९।।
अथ दुर्जनवृत्त्या लोकेऽपकीतिरेव सञ्जायते, अतोऽपवादकारणपरिहारपूर्वं यशोग्रहणहेतुमालम्ब्याऽऽह च - मूल दोहा - सारंग ! जगमि लेहु यस, म म गहि अपजस मूर ।
विधि दोऊ हुन्ति विपाक बसि, इक सुख इकु सिर सूर ॥३०॥ व्याख्या - हे सुजन ! त्वं जगन्मध्ये संसारे यशो गृह्णीष्वाऽर्जय । कदाचिदप्ययशोमूलं - अपवादं, मा मेति तर्जनसूचकमव्ययद्वयं सम्भाव्यम् । द्वयोर्विपाकवशे कार्योत्पत्तिसमये विधिः स्वरूपमेवं परिणमयतीदमेव द्वयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org