SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 34 अनुसन्धान ३६ त्पादनप्रकारं, रचयन्ति कुर्वन्ति, तदा तान् मा विराधयत, मौनमालम्ब्य सेवध्वम्, हे मित्राणि ! सज्जना इति प्रबोधः, यदुक्तम् "बहुभिर्न विरोद्धव्यं, दुर्जयो हि महाजनः" [ ] इति वचोयुक्त्या तत्र लोकोक्त्यां व्याख्यानकथनेन दृष्टान्तद्वयं दर्शयति-यथा तिलपिण्डस्य कालिमा कुट्टनेन मिश्रीभूता कियती निःकास्यते, तत्र मौनमेव विधेयम्, पुनर्यथा पालितानां भरस्य रीतिः समागमस्तं कथं निराकर्तुं शक्तिर्विस्फुरति, समयौचित्यमेव विचिन्त्य तिरस्कारो न श्रेयानेव - इति स्पष्टार्थः ॥२५॥ इत्थं विरुद्ध-वल्लभविधिरुक्तः, परं कश्चित् परोऽपि सन् कदाऽपि केनचित् प्रकारेण प्रेमाऽऽविष्कुरुते, तदा किं करणीयमिति पृष्टे प्रत्युत्तरमाश्रयतिमूल दोहा - पर जबु चिंतइ परमु हित, मिलि तबु दीजहि मांन । दोषसमै सुख देण कुं, ओषध सओ नांही आंन ॥२६॥ व्याख्या - यदा परोऽपि पूर्वमनिष्टोपि कश्चित्, परमं हितं सुखकारित्वेन प्रेम चिन्तयति, तदा तेनापि सङ्गम्य, मानमित्यादरो दीयते, अमुमेवार्थं दृष्टान्तेन दृढयति- यथा दोषसमये रोगोत्पत्तौ, सौख्यं दातुमर्थात्, प्रीतिजननं, औषध-सदृशमन्यत् किञ्चिदपि वस्तु न स्यादिति तदा तत्कटुकतरमपीष्टं भवति- इति तत्त्वम् ॥२६॥ ___ तदप्यौषधं यदा स्वबन्धुसेवकादिभिः सुरक्षितं भवति, तदैव शुभमिति रक्षणाय प्रशस्ति निरूपयति - मूल दोहा - सारंग ! सकल सुवस्तु की रक्षकनि रुचि होइ । फेरि न फूहरि नारि के कुच अवलोकइ कोइ ॥२७॥ व्याख्या - सकलस्य समस्तस्य सुवस्तुनः मनःप्रमोदजनकस्य पदार्थस्य रुचिरिच्छा, रक्षकविशेषादेव भवति । यदुक्तम् "शस्त्रं शास्त्रं वाणी वेश्या वीणा नरस्तथा चाऽन्यत् । पुरुषविशेषं प्राप्ताः भवन्त्ययोग्याश्च योग्याश्च ॥ [ ] यदा रुचिरमपि कुचं न रक्षितमनिष्टतामुत्पादयति, तत्र हेतुं दर्शयति. यथा कश्चिदपि विलासी 'फूहडि' नार्याः देशविशेषोक्तिरियमिति, अर्थात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy