________________
September-2006
व्याख्या - द्विपक्षानुसारेण विमृष्टा शीता कातरस्वरूपा सन्ततिः सुतो वा सुता वा, सहजेनेति प्रायशः सूरा धृतिमन्तो नोत्पद्यन्ते । तदेव आह लोकोक्त्या - स्वातिबिन्दुतः समुद्भूतः कदलीसुतः रम्भास्तम्भजातः कर्पूरः नंष्ट्वा नंष्ट्वा याति । यदुक्तम् -
"संगइवसेण साईअजलं सियभं च केलिमज्झगयं । अहिमुहपडियं गरलं सप्पिमुहे मुत्तियं होइ ॥ तदा पक्षद्वयस्य शीतभाव एव नाशनमूलमिति स्पष्टार्थः ॥१८॥
अथ च स एव कर्पूरो बलवत्प्रकारान्तरेण मिरचादिसहायवत्तारूपेण तिष्ठति, अत एव सर्वोऽपि लोक: सहायमृते सफलबलभावं नाऽऽविष्करोतीत्येतदर्थमेवाहमूल दोहा - अतिबलवंत इकेल तन, जनमि न पावइ जीत ।
महिलालोयन मोह कुं, अंजनु विनु अविनीत ॥१९॥ व्याख्या - अतिबलवन्तोपि एकाकिनः स्वकायमात्रा एव, जन्मनि कदाचिदपि जयं न प्राप्नुवन्ति, तत् कथमिति तत्, दृष्टान्तमात्रेण सहायं तिरस्करोति- महिलामां लोचनानि तीक्ष्णदीर्घतरलभावभाञ्जि बलवन्त्यपि सहायीभूतमञ्जनं विना तरुणजनमनोमोहनार्थं, न विनीतानि अचतुराणि, न तथा शक्तिमन्ति भवन्ति - इति सत्यमेव चिन्त्यम् ॥१९॥
अथ च तान्येव लोचनानि अञ्जनवन्ति तारुण्यावसरैव (रे एव) शोभन्ते, न तु वृद्धावस्थायां रचिताडम्बरतया भान्तीति समयौचित्यमाहमूल दोहा - सारंग ! समयविशेषि सबु, भूषन-दूषन भेद ।
जरति युवति के अधर ज्युं, व्रणु अरु दंतविछेद ॥२०॥ व्याख्या - हे सारंग ! इति स्वामन्त्रणस्वरूपं परोपदिष्टिवचनमपि, सर्वोपि भूषण-दूषणरूपो भेदो, विचार इति, वक्तव्ये - 'अयं योग्योऽयमयोग्य' इति समयविशेषेणैव प्रस्तावौचित्येनैव भवति । तत्स्वरूपमुत्तरार्धेन निवेदयति - यथा जरत्या वृद्धायाः अधरे किञ्चिद्दन्तदशनं कथञ्चिज्जायते, तदा समयाभावेन लोकाः, विलोक्य इति वदन्ति - इति शेषः, अयं व्रणो विस्फोटोऽस्तीति, तथा युवत्या अधरे विस्फोटे पि जाते जनोक्तिरेवं स्यात् - दन्तक्षतोऽस्तीति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org