________________
30
अनुसन्धान ३६
अतोऽग्रे तदेवोपदेशदर्शनद्वारा वदति इति धनवन्तो जनाः जबाधमिति जात्यन्तरमार्जारतनुसम्भूतं सुरभिवस्तु, तस्मै सन्तुष्टचित्ताः सन्त इति शेष:, पाणि मानदानकारणं दक्षिणहस्तं प्रसार्य गृह्णते, परं तदा जन्मस्थानगुणागुणतां न चर्चयन्ति इति भावः ॥ १५ ॥
-
अथ च यथा सा पूर्वोक्तजबाधि: स्वगुणवशान्मान्या, तथा मान्यजनस्य पुनः लोकाः कलङ्ककारणमपि किञ्चिद् दृष्ट्वा न निन्दन्ति, तत्र पुनर्हेतुं नो वति अतोऽग्रे दोधके । स चाऽयम्
मूल दोहा
कुचरित देखि समत्थ कुं, कोइ न देतु कलंक । अरधनारि नट ईश कुं नितु जन नमइ निशंक ||१६|| समर्थस्य परमैश्वर्यवतो जनस्य कुचरित्रमपि दृष्ट्वा तद्भाग्यतः, कोऽपि कलङ्कमपकीर्तिभावं न दत्ते । यथा दर्श अर्धनारीनटेश्वराय सकलजनमनोवाञ्छितपूरणप्रभावाऽनुभावतः, निःशङ्कमिति सत्यभावनयैव लोका नित्यं सदा नमन्ति वन्दन्ते इति गुह्यम् ||१६||
व्याख्या
पूर्वोक्तस्येशस्य वपुःप्रतापेन महत्त्वमिति कथयितुमनाः पुनः सूचयति
मूल दोहा - वपु तप जहां तहां हइ विजयुं, किसहुं न वर विणु कार । झंपि न कोऊ दिढ अगनि सर, छूअति सकल जण छार ॥१७॥ व्याख्या येषां वपुषि शरीरे, अर्थात् स्वशक्तितोऽधिकः, प्रताप: समुल्लसति तेषामेव विजयोऽस्ति परं केषामपि बलं विना, कारः इति माहात्म्यं न भवति, यथापूर्वं तेजोवृत्तिमनुभूय, पश्चात् कथमपि निःप्रतापीभूतस्यैकस्यैव पदार्थस्योभयथाऽपि दृष्टान्तमुपदेशयति यथा कोऽपि जन: दृढाग्निज्वालां न झम्पयति, नवि (नाऽपि) दूरतोऽपि सङ्गन्तुमिच्छति, सैव भस्मभावं प्राप्ता, तदा तामेव सकलजगत् श्वान गर्दभादिप्रमुखमपि स्पृशति, परं काञ्चिद् भीतिमाकलयति, तथैवेदमपि रहस्यम् ॥१७॥
तत् पूर्वोक्तं प्रतापवत्त्वं क्षत्रियादिकुलजातस्यैव सम्भवति, न तु तद् होनकुलजातस्य इति प्रायोभावेनाऽमुमेवार्थं समर्थयति
मूल दोहा - सन्तति सीत दुपाखकी, सहजि न उपजहि सूर । स्वाति - कदलीसुतउ सदा, भजि भजि जाइ कपूर ॥१८॥
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org