________________
28
अनुसन्धान ३६
मूलगहंति । मूले-कलशस्य मूलदेशे ग्रहाः - सूर्यादयो यस्य तत् । तथा कण्ठेगलस्थाने निधयो नव नैसर्पकाद्याः समयप्रसिद्धा यस्य तत् । तथा चत्वारः प्रतिहारद्वारपालाः कुमुदा १ ऽञ्जन २ वामन ३ पुष्पदन्ताख्या ४ यस्य तत् । तथा चत्वारो वीरा माणिभद्र १ पूर्णभद्र २ कपिल ३ पिङ्गलाख्या ४ यस्य तत् ईदृशम् । ततो विद्यादेव्यः षोडशापि मुना रोहिण्यै नमः, न प्रज्ञप्त्यै नमः' इत्यादि परितश्चक्रं लिखेत् । शासनसुरा(रा)श्च चक्रस्य दक्षिणदिशि लिखेत् । शासनदेवी (वी:) वामदिशि लिखेत् । तथा चक्रस्य मूले पतद्ग्रहाधः 'मुआदित्याय नमः' इत्यादिनवग्रहाणां नामानि लिखेत् । कण्ठे च वाम-दक्षिणतो नवाऽपि कलशान् कृत्वा तदुपरि नैसर्पकाय नमः' इत्यादि लिखेत् । तथा चतसृषु दिक्षु क्रमेण कुमुद १ अञ्जन २ वामन ३ पुष्पदन्तान् ४ लिखेत् । तथा माणिभद्रादींश्चतुरो वीरानप्येवं दिक्षु लिखेत् ॥१०॥
दिसिवालखित्तवालेहिं ति द्वितीया गाथा । दिक्पालैर्दशभिः इन्द्रा-ऽग्नियम-नैर्ऋति-वरुण-वायु-कुबेरे-शान-ब्रह्म-नागनामभिः क्षेत्रपालेन च सेवितम् । ततो(त्र) दशसु दिक्पालेष्वष्टौ दिक्पालान् पूर्वादिक्रमेण लिखेत् - मुइन्द्राय नमः' इत्यादि । ऊद्धर्वं तु 'मुंब्रह्मणे नमः', अधः ' नागाय नमः' । निजदक्षिणभागकोणे 'मुक्षेत्रपालाय नमो' लिखेदिति गाथाद्वयार्थः । तथाप्यस्य लिखने सम्यविधिश्चाऽस्याऽऽम्नायविन्मुखाद् यथालिखितचक्राद्वाऽवसातव्यः ॥११॥
एयं च सिद्धचक्कं कहिअं विज्जाणुवायपरमत्थं ।
नाएण येण सहसा सिझंति महंतसिद्धीओ ॥१२॥ एयं चेत्यादिगाथा । कण्ठ्या । नवरं विद्यानुवादो नाम नवमं पूर्वं, तस्य परमार्थरूपं रहस्यभूतमित्यर्थः ॥१२॥
इति श्रीमन्नागपुरीयतपागच्छनायक सुविहितशिरशेखर श्रीरत्नशेखरसूरिविरचितायां श्रीश्रीपालराजा(ज)कथा[यां] सिद्धचक्रयन्त्रोद्धारगाथाद्वादशकस्य व्याख्या संक्षेपतो व्यधायि भ० श्रीचन्द्रकीर्तिसूरिभिः ॥ छ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org