SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ June-2006 27 बीजा:- नसायुक्ताः- मुना अर्हत्पादुकाभ्यो नमः १ इत्यादिकास्तत्र लिखेदित्यर्थः ॥७॥ रेहादुगकयकलसा-यारामिअमंडलं व तं सरह । . चउदिसि विदिसि कमेणं जयाइ-जंभाइकयसेवं ॥८॥ रेहादुगत्ति । रेखाद्विकेन यन्त्रार्द्धभागाद् वाम-दक्षिणनिर्गतान्योन्यग्रथितप्रान्तरेखाद्विकेन कृतं यत् कलशाकारममृतमण्डलं तदिव स्मरत कलशाकारं लिखेदित्यर्थः । किविशिष्टं यन्त्रम् ?, चउदिसित्ति । चतुर्दिक्षु विदिक्षु च क्रमेण जयादिभिश्चतसृभिः जया १ विजया २ जयन्ती ३ अपराजिता ४भिः तथा जम्भादिभिः जम्भा १ थम्भा २ मोहा ३ अन्धाभिः ४ कृता सेवा यस्य तत् । तत्र जयादिकाश्चतस्रः क्रमेण पूर्वादिदिक्षु जम्भादिकाश्चाज्ञे (ग्ने)यादिविदिक्षु लिखेत् ।।८।। सिरिविमलसामिपमुहा-हिट्ठायगसयलदेवदेवीणं । सुहगुरुमुह्मउ जाणिअ ताण पयाणं कुणह झाणं ॥९॥ सिरिविमलसामित्ति गाथा । श्रीविमलस्वामीतिनाम्ना श्रीसिद्धचक्राधिष्टायकस्तत्प्रमुखा येऽधिष्टायका देवा देव्यश्चक्रेश्वर्याद्यास्तासां ध्यानं सुगुरुमुखाद् ज्ञात्वा ताणत्ति-तत्सम्बन्धिनां पयाणं ति- मन्त्रपदानां ध्यानं कुरुत । एतेषां नामानि कलशाकारस्योपरि सर्वतो लिखेत् । 'ॐ श्रीविमलस्वामिने नमः' इत्यादि लिखेत् ।।९।। तं विज्जादिवि-सासण-सुर-सासणदेविसेविअदुपासं । मूलगहं कंठनिहिं चउपडिहारं च चउवीरं ॥१०॥ दिसिवाल-खित्तवालेहिं सेविअं धरणिमंडलपईवं । पूअंताण नराणं नृणं पूरेइ मणइटुं ॥११॥ ' तं विज्जादिवित्ति गाथा । तथा दिसिवालखित्तवालेहिंति गाथा-युग्मस्य व्याख्या । तत् सिद्धचक्रं-कर्तृ, पूजयतां-नराणां नूनं-निश्चितं मनइष्टमनसोऽभीप्सितं पूरयति । कथम्भूतं तत् ?, विद्यादेव्यः षोडश रोहिण्याद्याः । शासनसुरा गोमुखयक्षाद्याः । शासनदेव्यश्चक्रेश्वर्याद्याः । ततो विद्यादेवीभिः शासनसुरैः शासनदेवीभिश्च सेवितौ द्वौ पाश्र्वी वाम-दक्षिणौ यस्य तत् । पुनः कीदृशम् ?, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520536
Book TitleAnusandhan 2006 06 SrNo 36
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages70
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy