________________
नवेम्बर
सर्वे सर्वज्ञाः कुशलकराः, नानावर्णाकारवरतराः । संसाराब्धौ मग्नजनधराः, देयासुः शं मुक्तिपदवराः ॥२॥ श्रीसिद्धान्तो मे कुशलकरः, श्रीसर्वज्ञोक्तो दुरितहरः । जीयात्संसाराब्धिघटभवः, शश्वद्भक्तानां कृतविभवः ॥३॥ साऽशोकादेवी मम सुखदा, तेजःपुञ्जोद्दीप्ततररदा । अर्हद्भक्त्युत्थप्रबलमदा, भूयाद्भव्याङ्गिप्रहतमदा ॥४॥
११ - श्रीश्रेयांसजिनस्तुतिः
(---छन्दसा)" सकलसिद्धिविधानविदग्धं, दशमतोऽग्रिममीशममुग्धम् । अमितकामितदानसुरहूं, श्रयत शोषितलोभमितह्नम्१० ॥१॥ जिनवराः प्रदिशन्तु सतां शं, न लभते मरमर्द्विशतां शम् । हरिहराद्यपरः सुरसार्थः, प्रभुतया धृतयाऽपि कृतार्थः ॥२।। जिनपतेर्वचनं भविकानां, भवतु११ लब्धमहाभविकानाम् । दुरितसन्ततिसंहरणाय, प्रबलसंसृतिसंहरणाय ॥३|| अखिलमङ्गलमूलविधात्री, गुरुतरोच्चलचिन्तितदात्री । विकटसङ्कटवल्लिकृपाणी, जिनमते जयताद्भुवि वाणी ॥४॥
१२ - श्रीवासुपूज्यजिनस्तुतिः
(तामरसच्छन्दः)12 नमत सुरासुरसेवितपादं, वदनविभाजितशीतलपादम् । महिषधरं गतखेदविषादं, जलधरगर्जिगभीरनिनादम् ॥१॥ सकलजिनेशगणं विनुवेऽहं, हुतकनकधुतिसत्तमदेहम् । चरणमाहदि सुन्दरहारं, पदयुगलप्रणते हितकारम् ॥२॥ जिनवनवाग्विभवो मम सातं, दिशतु महोदयपत्तनजातम् । नयगमभङ्गभरप्रतिपूर्णः, कठिनपुराणतमस्कृतचूर्णः ॥३॥
१०. समुद्रम् ।
११. प्राप्तमहन्मङ्गलानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org